Book Title: Saraswatollas Kavya Vishe Author(s): Shilchandrasuri Publisher: ZZ_Anusandhan View full book textPage 8
________________ अनुसंधान-१५.8 दैत्यादृतध्वान्तचमूदयेऽचिश्चकारुणं चक्रमभूतदीयम् ॥२७॥ रेजेऽर्कबिम्बि(म्बं ?) वरुणेभकुम्भः सिन्दूरपूरच्छुरणारुणः किम् ? ।. किं तद्वधूकुङ्कुमितास्यपद्मच्छायारुणः स्फाटिकदर्पणो वा ॥२८॥ श्रीकण्ठकान्तामगमं न गङ्गामित्यात्मशुद्ध्यै पुरतः सुराणाम् । उत्तुङ्गकल्लोलकरेऽर्कगोलं दधे क्रमादम्बुधिरग्निवर्णम् ॥२९॥ पत्युः प्रतीच्यास्तुरगेभग:रत्नैर्भूतं मन्दिरमम्बुराशिः ।। तस्योपरिष्टादहिमांशुबिम्बं (?) शिश्राय शोणोपलकुम्भशोभाम् अम्भोल्पमग्नार्कमिषेण लक्ष्म्याः प्रमीलितायाः प्रियसिन्धुतल्पे । तुङ्गः स्तनः पीडनपाटल: कि जातोऽनिलोद्भूतदुकूलदृश्यः ॥३१॥ मन्ये तमोभिः कृतरथ्यरङ्गतुरङ्गरूपै रविरात्मवैरी । नीत्वोपकण्ठं धिगपाति पापैः पाथोधिमध्ये तदनु प्रसस्ने ॥३२॥ काली तमःकञ्चलिकां सतारा-- मुक्तामदृश्येन्दु-तरण्युरोजाम् । सन्ध्यानुरागोरगवल्लिरङ्गाच्चङ्गा मुखे(s?) वस्त कुहूकुलस्त्रीः॥३३॥ ॥३०॥ For Private & Personal Use Only Jain Education International www.jainelibrary.orgPage Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26