Book Title: Saraswatollas Kavya Vishe
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 11
________________ ॥४८॥ अनुसंधान-१५ • 11 धीरा निधीकर्तुमिवौषधीच्छाधीनाः खनन्ति स्म वनावनीषु ॥४७॥ दीपावलीपावनरात्रिकाएँ निर्माय मंगल्यमथो नृनार्यः । दीपद्युतादर्पकदोःप्रतापाद(?) दान्तोदरं तल्पनिकेतमापुः दीपस्तदीयामलदीप्तिदीव्यच्चीरावृताङ्ग्यास्तिलकं किलैकम् । देहल्यनुल्लङ्घनलालसायाः सत्याः श्रियोः दर्शि(श्रियोऽदर्शि) गृहोदरेऽपि ॥४९।। सद्वर्णपादं गुणगुम्फयोग्यं सज्जं कलावज्जनितं युवानः । भेक्षुस्तथा तल्पममा वधूभिः (?) काव्यं यथाऽलंकृतिभिः सहार्थाः ॥५०॥ गाढोपगूढस्तनपीडनादिक्रीडाः प्रदीपोऽत्र वधू-धवानाम् । पश्यन्मरुल्लोलशिखोऽन्तरन्तः शङ्के शिरोऽन्दोलयति स्म रागी ॥५१॥ पुष्पायुधायुःपरिवर्द्धकं यद्यद्यौवनद्रोः कुसुमायमानम् । यद्रागवार्धरमृतोपमं तत् किं नो युवानो विदधुर्वधूषु क्रमेण जांता यदि घूर्णनेभ्यो निर्णीतनिद्रागतयः प्रदीपाः । किं तर्हि वाच्यं रतकेलिखिन्नोऽन्तरङ्गतारुण्यवधूवराणाम् ॥५३॥ संभोगयुद्धेऽङ्गुलिकुन्तकोटि ॥५२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26