Book Title: Saraswatollas Kavya Vishe
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan
View full book text
________________
॥२३॥
अनुसंधान-१५ • 22 भ्रष्टांशुकः श्राग् विललाग भूयो रागाविलः शीतकरोऽम्बरान्ते ॥१२१॥ जहार हारावलिहेतवेऽहः - श्रीस्तारमुक्तौधमभूत्तदा किम् ? । भूयस्तरां स्तात्पुनराप्स्यतीयंश्यामा समुद्रप्रियपुत्रपत्नी ॥१२॥ पाथोधरध्वानमपार्थयन्तो ये स्म प्रथन्ते दधिमन्थनादाः । मन्येऽपविघ्नाग्र(ग्रि)मवत्सराप्तिप्रौढोत्सवे ते पटहप्रणादाः उद्योगिनां जागरणाय साधा रण्येन दीर्घाः कुकवाकुघोषाः । पुण्यार्थमद्रव्यविभातभेरीभाङ्कारशोभां बिभराम्बभूवुः ॥१२४॥ शोणौ धुनीधन्यवधूमिपाणिप्रेडोलिनौ प्रेमगुणेन बद्धौ । भूयो भवद्योग-वियोगवर्यावासञ्जतां कोकविलासगौलौ (?) ॥१२५।। वर्धापयन्ति स्म सुपर्ववध्वः श्रीवीरनिर्वाणदपर्वरात्रिम् । पेतुः समन्तादिति शाड्वलेषु प्रालेयलेशव्यपदेशमुक्ताः ॥१२६॥ दुग्धाज्ययोर्धामनि चेदियन्तः स्युर्मोदकाः पर्व तदेति मन्ये । स्मराजहस्ताभिनयालिगुञ्जा - गीर्भिर्न कस्को जहसेऽब्जिनीभिः ॥१२७॥ दीपालिकापोषितपूर्जनाना
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 20 21 22 23 24 25 26