Book Title: Saraswatollas Kavya Vishe
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan
View full book text
________________
॥१४२॥
अनुसंधान-१५ . 25 दत्तप्रकाशो रविरग्रहोऽपि ॥१४१।। यच्चोत्तमानां चितपञ्चवर्णं विघ्नावलिव्यालविलोपितूर्णम् । कलाशिखाशालिशिरःशिखण्डिश्रीखण्डनं खेलति हृद्धनेषु पापापनोदे पटुवाद्यमानः सद्यो यदेवोच्चरतीति हेतोः । श्रीवासुदेवः सुतनिर्विशेष चुम्बत्यबङ्गिप्रबलास्थिकम्बुम् ॥१४३॥ नाऽलीकसूनोलपनः प्रतोलीरालोक्य रुद्धाः सकलान्यवर्णैः । पूतं परस्पर्शभयेन जाने यन्निर्ययौ भिन्नकपोलभित्ति ॥१४४॥ तिस्रोऽपि रेखास्त्रिजगन्ति गौरज्योति:कलासिद्धिशिलाविशाला । सिद्धः सबिन्दुस्तदुपर्यतो यल्लोकस्य किं रूपकमल्पमातम् ॥१४५।। पञ्चाईदादिप्रथमाक्षरोत्थं जैनाः समग्रागमसारमाहुः । षड्बिन्दुखण्डेन्दु-विरिञ्चिनामोपन्नं यदन्येऽप्यधिकं त्रयीतः ॥१४६।। योगिप्रधानप्रणिधानधारागोदावरीखेलिवितीर्णलक्ष्मि । हालक्षमापालति यत्पुरस्थै - वर्णद्विपञ्चा[श]दुदारवीरैः ॥१४७|| यद्वीजमेकेन्दुकलां दधानां जिह्वादलं यावदलंकरोति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 23 24 25 26