Book Title: Saraswatollas Kavya Vishe
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan
View full book text
________________
अनुसंधान-१५ . 17 श्लिष्यन्नुरोहिङ्गुलरङ्गचोलं यस्याः स्तनास्फालजकोपशंसी । शुक्लोऽपि लौहित्यमुपैति हारो वीक्ष्याऽपि को वा सुकुचां न रागी ।।८८।। कम्बुः किमु स्याद्यदकुण्ठकण्ठस्पर्द्धाय पूर्णोऽप्ययमुज्ज्वलात्मा । यधुच्चरत्योमिति वाद्यमानः पापापहं नो परमेष्ठिबीजम् ॥८९|| देदीव्य(प्योते देव्यधरारुणास्यासिन्दूरपादा कुमुदावदाता । या मानसे सौमनसे न सेवालस्याऽऽलये दिव्यसितच्छदीव ॥९॥ वाद्धि विना विद्रुममुद्बभूवाऽशोकं विनाऽस्योदलसत् प्रवालम् । बिम्बी विना बिम्बमलालगी(लीलग ?)द्वा किं धूतबन्धूकमदो यदोष्ठः ॥९॥ पद्मेन्दनाद्यद्वदनं समासभ्रूश्रीकरी ध(धा)रयते पुरापि । राज्ञो जयाल्लोहितशुण्डदडं (दण्ड-) भालातपत्रं त्वधुना तदूर्वम् . ॥१२॥ आच्छिद्य पुष्पेषुभटाद्दयालुः शङ्के स्वनासामिषतो निषङ्गम् । या न्यग्मुखीकृत्य. करोति रिक्तं न्यध्याय्यधस्तद्विजपुष्पपङ्क्तिः ॥९३।। स्वत्यागधत्तूरकृतार्चशम्भोः खेदाय तद्वन्द्यपदामुपास्ते । सूक्ष्मान्तपक्ष्माङ्करकण्टकोद्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26