Book Title: Saraswatollas Kavya Vishe
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 15
________________ ७४|| ॥७५।। |७५॥ ॥७६।। अनुसंधान-१५ • 15 पुण्यैः परीतां नु तनूलतां या धत्तेऽवदातद्युतिदेवदूष्याम् आश्रोणि यस्यास्तनुरस्ति पुण्यक्षेत्रं नु गौरोद्गतरुग्(क)प्ररोहम् । यत्रान्तरीयानतरङ्गभङ्ग्या भान्त्यद्भुताः सीरविलेखलेखाः यस्याः पुरे गर्भगनाभिकूपो यो मेखलामध्यमदीप्रवप्रः । रत्नोत्थितास्तत्र मिथो मिलन्त्यः कुर्वन्त्यलम्भाः कपिशीर्षशोभाम् काले कलौ गत्वरतत्त्वविद्ये या मेखला हाटकपट्टिकायाम् । रत्नानि धत्तेऽक्षरपङ्क्तिरूपांनीवीमवैम्युत्तमवाङ्मयानाम् मध्यो न किं वा न मयैक्षि यस्याः प्राच्यो न तस्य प्रतिमासुवृष्टेः । अन्यस्तु पक्षोऽभिमतो यतोऽहं स्थूलार्थदर्शी स च गाढसूक्ष्मः जानीत यन्मूलतनूलतामप्युन्मीलितां तूलिकया कलातः । नो चेत् कथं मध्यशलाकिकायां तिष्ठत्यपारः स्तनशैलभारः सर्वेश्वरी या वरमीश्वरादेः पादेन कस्याऽपि ततिं करोति । नो चेद्वपुर्वालनयावलग्नो भग्नोऽभविष्यद्विसखण्डबन्धुः यस्याः प्रभावेन विनाशवन्ध्या ॥७७॥ 11७८॥ ॥७९॥ ॥८०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26