Book Title: Saptabhangimimansa
Author(s): Shivanandvijay
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 126
________________ (७४) सन्निहितार्थक्रियाकार्युपादेयरूपेण घटस्सन् तथा हेयबहिरङ्गानर्थक्रियाकारिरूपेणापि घटस्स्यात् तर्हि जलाद्याहरणादिलक्षणघटार्थक्रियाऽकारिणां पटादीनामपि घटत्वं प्रसज्येतेत्यत उपा. देयान्तरङ्गार्थक्रियाकारिरूपेणैव घट इति प्रथमभङ्गोपपत्तिः, यथा च हेयबहिरङ्गादिरूपेण घटोऽघटः तथोपादेयान्तरङ्ग. रूपेणाऽप्यघटः स्यात्तदा घटव्यवहार एवोच्छियेत, घटाभावे घटभिन्नानामघट इति व्यवहारोऽपि कथं स्यादघटस्य घटनिरूप्यत्वानिरूपकाभावे निरूप्यस्याप्यभावादिति हेयबहिरङ्गादिरूपेणैवाघट इति द्वितीयभङ्गोपपत्तिः, उक्तदिशैवान्तरङ्गस्य वक्तगतस्य हेतुभृतघटाकारावबोधकविकल्पस्य श्रोतृ. गतस्य च फलभूतघटाकारविकल्पोपयोगस्य चाभावे घटस्याप्यभावाद्वाच्याभावाद्वाचकस्याप्यभाव इत्यवक्तव्य एव सः, एकान्ताभ्युपगमेऽप्येकान्तस्याभावात्तद्वाचकाभावादवक्तव्य एवेत्येव तृतीयभङ्गोपपत्तिरित्यष्टमः प्रकार ॥ ८ ॥ यदाचोक्तदिशोपयोगरूपो घट उपेयते तदा तत्रैवोपयोगेऽभिमताथांवबोधकत्वेन सत्वमिति तद्रूपेण सन्निति प्रथमभङ्गः, अनभिमतार्थावबोधकत्व तत्रासन्निति तद्रूपेणासन्निति द्वितीय भङ्गः, ताभ्यां युगपदादिष्टोन केनापि वचनेन वक्तुं शक्य इति सथाऽवक्तव्य एव स इति तृतीयो भङ्ग, उपपत्तिश्चात्रेत्थम्उपयोगरूपो घटो यथा विवक्षितार्थप्रतिपादकत्वेन घटः तथा यद्यविवक्षितार्थप्रतिपादकत्वेनापि घटः, एवं तर्हि प्रतिनियतो

Loading...

Page Navigation
1 ... 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228