________________
(७४)
सन्निहितार्थक्रियाकार्युपादेयरूपेण घटस्सन् तथा हेयबहिरङ्गानर्थक्रियाकारिरूपेणापि घटस्स्यात् तर्हि जलाद्याहरणादिलक्षणघटार्थक्रियाऽकारिणां पटादीनामपि घटत्वं प्रसज्येतेत्यत उपा. देयान्तरङ्गार्थक्रियाकारिरूपेणैव घट इति प्रथमभङ्गोपपत्तिः, यथा च हेयबहिरङ्गादिरूपेण घटोऽघटः तथोपादेयान्तरङ्ग. रूपेणाऽप्यघटः स्यात्तदा घटव्यवहार एवोच्छियेत, घटाभावे घटभिन्नानामघट इति व्यवहारोऽपि कथं स्यादघटस्य घटनिरूप्यत्वानिरूपकाभावे निरूप्यस्याप्यभावादिति हेयबहिरङ्गादिरूपेणैवाघट इति द्वितीयभङ्गोपपत्तिः, उक्तदिशैवान्तरङ्गस्य वक्तगतस्य हेतुभृतघटाकारावबोधकविकल्पस्य श्रोतृ. गतस्य च फलभूतघटाकारविकल्पोपयोगस्य चाभावे घटस्याप्यभावाद्वाच्याभावाद्वाचकस्याप्यभाव इत्यवक्तव्य एव सः, एकान्ताभ्युपगमेऽप्येकान्तस्याभावात्तद्वाचकाभावादवक्तव्य एवेत्येव तृतीयभङ्गोपपत्तिरित्यष्टमः प्रकार ॥ ८ ॥
यदाचोक्तदिशोपयोगरूपो घट उपेयते तदा तत्रैवोपयोगेऽभिमताथांवबोधकत्वेन सत्वमिति तद्रूपेण सन्निति प्रथमभङ्गः, अनभिमतार्थावबोधकत्व तत्रासन्निति तद्रूपेणासन्निति द्वितीय भङ्गः, ताभ्यां युगपदादिष्टोन केनापि वचनेन वक्तुं शक्य इति सथाऽवक्तव्य एव स इति तृतीयो भङ्ग, उपपत्तिश्चात्रेत्थम्उपयोगरूपो घटो यथा विवक्षितार्थप्रतिपादकत्वेन घटः तथा यद्यविवक्षितार्थप्रतिपादकत्वेनापि घटः, एवं तर्हि प्रतिनियतो