________________
(७३) शब्दवाच्यत्वेनापि स घटः, एतच्च तदोपपद्येत यद्येकशब्दवाच्यस्तदन्यशब्दवाच्योऽपि भवेत् , तथा चैकः शब्दः सर्वस्य वाचकस्स्याद् घटो वाऽशेषपटादिशब्दवाच्यः प्रसज्येतेत्यतो घटशब्दवाच्यत्वेनैव घट इति प्रथमभङ्गोपपत्तिः, अत्रचेदमप्यवधार्य यदुत अर्थे वाच्यत्वस्य शब्दे वाचकत्वस्य च समानसंविसंवेद्यत्वमिति घटशब्दवाच्यत्ववत् सर्वशब्दवाच्यत्वे घटशब्दवाच्यत्वप्रतिपत्तौ सर्वशब्दवाच्यत्वे भासमाने सति समस्ततद्वाचकशब्दप्रतिपत्तिरपि स्यादिति, यथा च कूटशब्दवाच्यत्वेन घटोऽसन तथा घटशब्दवाच्यत्वेनाप्यसन् एतच तदा स्याद्यदि घटशब्दवाच्यस्स न स्यात्, एवञ्च तत्प्रतिपत्तये घटशब्दोचारणवैयर्थ्य प्रसज्यतेत्यतः कूटशब्दवाच्यत्वेनैवासन्स इति द्वितीयभङ्गस्योपपन्नता, घटो घटशब्दवाच्यत्वेन सन्नेवेति कूटशब्दवाच्यत्वेनासन्नेवेत्येकान्ताभ्युपगमे तथाभूतस्य घटस्यैवासत्त्वादसति तस्मिन्कस्यचिदपि शब्दस्य सङ्केतकरणासम्भवान्न तद्वाचकः कश्चिच्छब्द इत्यवाच्य एव स इति तृतीयभङ्गः सङ्गतिमङ्गतीति सप्तमः प्रकारः ॥७॥
यद्वा घट शब्दाभिधेये तत्रैव घटे उपादेयान्तरङ्गोपयोगरूपतया सत्त्वस्य विवक्षितत्वात्तद्रूपेण सन् घट इति प्रथमभङ्गः, हेयो यो बहिरङ्गस्तद्रूपेण तत्र किञ्चित्कार्यकारित्वस्याभावादनुपयुक्तस्स इति तद्रपेणासन् घट इति द्वितीयभङ्गः, नाभ्यां युगपत्प्रधानतया विवक्षिताभ्यामादिष्टस्य घटस्य न वाचकः कनिच्छब्द इत्यवाच्य एव स इति तृतीयभङ्गः, यथा च