________________
(७२)
प्यसन् स्यात् , पतञ्च तदा घटेत यदि चक्षुरिन्द्रियजन्यप्रतिपत्तिविशेषविषयत्वं तस्य न भवेत् , तथा च यन्न चक्षुः रिन्द्रियजन्यप्रतिपत्तिविषयस्तन्न रूपात्मकमिति नियमादरूपत्वं तस्य प्रसज्येतेत्यत इन्द्रियान्तरजन्यप्रतिपत्तिविषयत्वेनैव सोऽसन्निति द्वितीयभङ्गस्योपपत्तिः, उक्तदिशा सर्वात्मकत्वप्रसङ्गभयादेकान्तेन न सत्किमपीति न चक्षुरिन्द्रियजन्यप्रतिपत्तिविषयत्वेन सत्त्वमिन्द्रियान्तरजन्यप्रतिपत्ति. विषयत्वेनासच विनिर्मुक्तं समस्ति तथेन्द्रियान्तरजन्यप्रतिपत्तिविषयत्वेनासत्त्वमपि चक्षुरिन्द्रियजन्यप्रतिपत्तिविषयत्वेन सचविनिमुक्तं न समस्तीत्येकान्तवादे तदितरस्याभावे तस्याप्यभावाद्वचनविषयाभावे वचनप्रवृत्तिरेव ने सम्भवतीत्यवाच्य एव तथा स इति तृतीयभङ्गोपपत्तिरिति षष्ठः प्रकारः ॥६॥
अथवा लोचनप्रतिपत्तिविषयस्स एव घटो यदा घटशब्दवाच्यत्वेन विवक्षितस्तदा घटशब्दवाच्यत्वं तस्य निजं रूपमिति घटशब्दवाच्यत्वेनास्त्येव स घट इति प्रथमो भङ्गः, कूटशब्दवाच्यत्वं तत्र सदपि न विवक्षितमित्यविवक्षितत्वादेव न तत्तद्रूपं किन्त्वन्तरभूतं तदिति कूटशब्दवाच्यन्वेनासन्नेव स इति द्वितीयभङ्गः, युगपत्ताभ्यां निरुक्तसत्त्वासत्त्वाभ्यामभिधातुमिष्टस्स न केनापि वचनेन वक्तुं शक्य इति अवक्तव्य एव स इति तृतीयभङ्गः, अत्रोपपत्तिरेवं भाव्या- यया बटशब्दवाच्यत्वेन स घटः तथा यदि कूट