________________
(७१)
रिणतिरूपो यो घटः स चक्षुरिन्द्रियजन्यप्रत्यक्षविषयत्वेनास्ति इन्द्रियान्तरजन्य प्रत्यक्षविषयत्व पर्यवसन्नचक्षुरिन्द्रियजन्य प्रत्यक्षाविषयत्वेन स नास्तीत्येवं प्रथमद्वितीयभङ्गौ ताभ्यां युगपत्प्रधानतयाऽऽदिष्टाभ्यां वक्तुमशक्यत्वादवक्तव्य स इति तृतीयो भङ्गः । इयमत्रोपपत्तिः- यदि चक्षुरिन्द्रियजन्यप्रतिपत्तिविषयत्वेन यथा क्षणपरिणतिरूपो घटस्सन् तथा चक्षुर्व्यतिरिक्तेन्द्रियजन्यप्रत्यक्षविषयत्वेनापि सन्, एतच्च तदोपपद्येत यदि यत्क्षणरूपे यदा चक्षुरिन्द्रियजन्यज्ञानं तदैवे - न्द्रियान्तरजन्यज्ञानं, तर्हि ज्ञानद्वयस्य युगपदनङ्गीकारादिन्द्रियान्तरजन्यत्वेनाभिमतं ज्ञानं चक्षुरिन्द्रियजन्यं स्यात्, एवं सतीन्द्रियान्तरमन्तरेणापि चक्षुरिन्द्रियेण तज्ज्ञानस्य संभवे इन्द्रियान्तरकल्पनाया वैफल्यमेवानुषज्येत, यदि च विनिगमनाविरहाच्चक्षुरिन्द्रियजन्यमपीन्द्रियान्तरजन्यं, तर्हि चक्षुरिन्द्रियजन्यप्रतिपत्तिविशेषकरणत्वं यच्चक्षुरिन्द्रियस्या साधारणधर्मत्वा लक्षणं तदिन्द्रियान्तरेऽप्यस्तीन्द्रियान्तरमपि चक्षुरिन्द्रियं स्यात्, एवं रसनेन्द्रियजन्यप्रतिपत्तिविशेषकरणत्वं यद्रसनेन्द्रियस्यासाधारणधर्मत्वालक्षणं तच्चक्षुरादीन्द्रियान्तरेऽप्यस्तीति चक्षुरादीन्द्रियमपि रसनेन्द्रियमित्येवमिन्द्रियसङ्करप्रसङ्ग इति क्षणपरिणतिरूपो घटो यश्चक्षुरिन्द्रियजन्यप्रतिपत्तिविषयस्स चक्षुरिन्द्रियजन्यप्रतिपत्तिविषयत्वेनैव सदिति प्रथमभङ्गोपपत्तिः, एवं स एव क्षणपरिणतिरूपो यथेन्द्रियान्तरजन्यप्रतिपत्तिविषयत्वेनासन् तथा चक्षुरिन्द्रियजन्यप्रतिपत्तिविषयत्वेना