________________
(७०)
मध्यावस्थापि घटस्य बहुकालव्यापीनीति, तत्र वर्तमानक्षणमात्रं तस्य निज रूपं अतीतानागतक्षणौ चार्थान्तराविति वर्तमानक्षणरूपतयाऽस्त्येन घट इति प्रथमो भङ्गोऽतीतानागतक्षणरूपाभ्यामविवक्षिततयार्थान्तराभ्यां नास्त्येव घट इति द्वितीयो भङ्गः, युगपत्प्रधानतया विवक्षिताभ्यां ताभ्यां वक्तुमशक्यत्वादवाच्यो घट इति तृतीयोभङ्गः, इयमत्र तर्कप्रवृत्तिः-यदि वर्तमानक्षणवत्पूर्वोत्तरक्षणयोरपि घटः स्याचर्हि वर्तमानक्षणमात्रमेवासौ स्यात् , पूर्वोत्तरयोवर्तमानताप्राप्तेः न च वर्तमानक्षणमात्रमपि, पूर्वोत्तरक्षणापेक्षस्य वर्तमानक्षणस्य पूर्वोत्तरक्षणयोरभावेऽभावादिति वर्तमानक्षणरूपेणैवासावस्तीति प्रथमभङ्ग उपपद्यते, यथा चातीतानागतक्षणरूपाभ्यां घटोsघटस्तथा यदि वर्तमानक्षणरूपतयाऽप्यघटः तर्हि कालत्रयेऽपि तस्याभावः प्रसज्येत इति पूर्वोत्तरक्षणरूपाभ्यामेवासावघट इति द्वितीयभङ्गः सङ्गच्छते, एकान्तेन वर्तमानक्षणमात्रवर्तिनः एकान्तेनातीतानागतक्षणावर्तिनो वा घटसाभावादेव तथाऽवक्तव्यो घट इति तृतीयभङ्ग सङ्गतिमङ्गति, इति पञ्चमः प्रकारः ॥ ५ ॥
अथवा क्षणपरिणतिरूपे यदा चक्षुरिन्द्रियजन्यविषयत्वं तदा नान्येन्द्रियजन्यविषयत्वम् , अन्यदा चान्ये - द्विन्यजन्यप्रत्यक्षविषयोऽन्य एवं क्षणपरिणतिरूपो घटो न तु चक्षुरिन्द्रियजन्यप्रतिपत्तिविषयस्सः एवश्च क्षणप