________________
व्यतिरिक्तरूपेणैवाऽघट इति द्वितीयभङ्गव्यवस्थितिः, सर्वथा घटात्मकं सर्वथाऽघटात्मकञ्च घटस्वरूपं न प्रमाणगोचरचरमित्येकान्ताभ्युपगमे तथाऽसत्त्वादेवावाच्य इति तृतीयः प्रकारः
यद्वा स्वीकृतप्रतिनियतसंस्थानादिरूपे घटे विवक्षितत्वान्मध्यावस्था निजं रूपं, कुशूलकपालादिलक्षणे पूर्वोत्तरावस्थे अर्थान्तररूपमिति विवक्षितमध्यावस्थात्मकनिजरूपेण घटोस्ति, पूर्वोत्तरावस्थात्मककार्यान्तररूपेण घटो नास्ति, इत्येवं प्रथमद्वितीयभङ्गौ, युगपत्प्रधानतया विवक्षिताभ्यां निरुक्तनिजरूपान्तररूपाभ्यामभिधातुमसामर्थ्यात्स्यादवाच्यो घट इति तृतीयो भङ्गः, तर्कप्रवृत्तिश्चेत्थम् यथा घटो विवक्षितमध्यावस्थारूपेणास्ति तथा यदि पूर्वोत्तरावस्थाभ्यामपि स्यात् , तदाऽनाद्यनन्तत्वं तस्य स्यादतो मध्यावस्थारूपेणैव घटोऽस्तीति प्रथमभङ्गव्यवस्थितिः, एवं यथा पूर्वोत्तरावस्थारूपेण घटोsघटस्तथा यदि मध्यावस्थारूपेणाप्यवटः स्यात्सर्वदा तार्ह घटाभाव: प्रसज्येत, एवञ्च विषयाभावाद् घटार्थिनस्तत्र प्रवृत्ति रनुपपन्ना स्यादतः पूर्वोत्तरावस्थारूपेणैव घटोऽघट इत्येवं स्याद्घटो नास्तीति द्वितीयभङ्गव्यवस्थितिः, एवं घटोन सर्वथा घटो न वा सर्वथाऽघट इत्येवमेकान्तरूपस्य तस्यासत्त्वादेवावक्तव्यत्वमित्यवाच्यो घट इति तृतीयभङ्गो व्यवतिष्ठते इति तुरीयः प्रकारः ॥४।।