________________
(७५) पयोगो न भवेत् , तथात्वे च विवक्षितरूपोपयोगप्रतिपत्तिरपि न भवेदतो विवक्षितार्थावबोधकत्वेनैव घट इति प्रथमभङ्गोपपत्तिः । एवं यथाऽविवक्षितार्थावबोधकत्वेनाघटस्तथा यदि विवक्षितार्थावबोधकत्वेनाप्यघटः स्यात् , एवं दिशा पटादिरप्यपटादिरेव प्रसज्येत तदा घटपटादेरशेषस्याभावः स्यात् , घटपटादीनां सर्वेषां सर्वथाऽसच्चे विशेषश्च न स्यात् , न ह्यसतां शशशृङ्गगगनकुसुमादीनां विशेषोऽस्तीत्यतोऽविवथितार्थबोधकत्वेनैवोपयोगरूपो घटोऽघट इति द्वितीयभङ्गोपपत्तिः । अत्र कश्चिदेवं ब्रूयादस्तु सर्वाभावोऽविशेषश्चति तन्न युक्तं विविक्तरूपोपयोगप्रतीत्यनुरोधेन सर्वसत्त्वस्य परस्परविशेषस्य चावश्यमभ्युपगन्तव्यत्वात् सर्वाभावस्याविशे. षस्य च प्रतीत्यभावादेवाभ्युरगन्तुमशक्यत्वादिति बोध्यम् । एकान्तसत्त्वासच्चोपगमेऽपि सर्वाभावाविशेषप्रसङ्गदोषस्य जागरूकत्वात्तथाभूतस्य वाच्यस्याभावे तद्वाचकस्याप्यभावादवक्तव्य एवेति तृतीयभङ्गोपपत्तिरिति नवमः प्रकारः ॥ ९ ॥
यद्वा सत्त्वस्याशेषवस्तुगतस्य महासामान्यस्य साधारणत्वादर्थान्तरत्वमेवेति न घटधर्मतया तस्य विवक्षितं, किन्तु घटत्वमेवान्यतो व्यावृतत्वेनासाधारणत्वान्निजं रूपमिति तदेव घटधर्मतया विवक्षितमिति घटत्वेन सन् घट इति प्रथमभङ्गः, सत्त्वेनासन् घट इति द्वितीयभङ्गः ताभ्यां युगपदभेदेन निर्दिष्टो घटो न केनचिच्छब्देनाभिधातुं