________________
( ७६ )
शक्य इत्यवक्तव्य एव स इति तृतीयभङ्गः तर्कप्रवृत्तिरत्रेस्थम्, -घटस्य सत्वेनास्तित्वं यद्यभिमतं तदा वक्तव्यं किं यो यस्सन् स घट इत्येवं सचमनूद्य घटत्वं विधातव्यम्, तथाभ्युपगमे 'असति बाधके उद्देश्यतावच्छेदकावच्छेदेन विधेयान्वय' इति सचे व्याप्यं घटत्वं व्यापकमिति सच्चस्य व्याप्यस्य सर्वगतत्वे तदात्मकस्य सतोपि सर्वगतत्वं सवव्यापकस्यापि घटत्वस्य सर्वगतत्वप्राप्तौ तदात्मकस्य घटस्यापि सर्वगतत्वप्रसङ्गः, न चायं प्रसङ्ग इष्टापच्या परिहर्तुं शक्यः, यत्किञ्चित्प्रदेश एवं घटस्य प्रतीयमानत्वेन तादृशप्रतिभासबाधितत्वात् सर्वगतत्वस्य एवं प्रतिनियतव्यक्तिष्वेव घटव्यवहारस्य भावेन सर्वगतत्वाभ्युपगमे तद्विलोपप्रसङ्गाचातो घटत्वेनैव घटस्सन् इति प्रथमभङ्गोपपत्तिः, एवं घटत्वेन घटस्य स तदा भवेद्यदि यत्रासच्वं तत्र घटत्वमिति स्यात्, असत्वश्च निषेधरूपत्वं निषेधश्व प्रागभावध्वंसात्यन्ताभावान्योन्याभावभेदेन चतुर्विध इति असवस्य प्रागभावादिचतुष्टये स घटत्वस्यापि तत्र प्रसङ्ग इति न घटत्वेन घटस्य निषेधरूपत्वलक्षणममच्वम्, अतस्सच्चमनूद्य घटत्वस्य विधानासम्भवात्सत्त्वेन न घटस्य घटत्वमिति तद्रूपेणैव घटस्याऽसत्त्वमिति सच्चेन घटोsसन्निति द्वितीयभङ्गोपपत्तिः, यदा सदसत्वे घटत्वमनूद्य विधीयेते यो यो घटस्स सन्नसंश्चेति तदा सदसच्चे घटमात्ररूपे प्रसज्येयातां, अत्र सामनैयत्येनोद्देश्यविधेयभावोऽभिमतो यथा 'प्रमाणं स्वपरव्यवसायिज्ञानं, गन्धवती