________________
(७७) पृथिवीत्यादौ', एतच्च तदोपपद्येत यदि पटादयः प्रागभावादयश्च जगति नाम न स्युः, इत्थं चान्यस्य कस्यचिदभावादव्यावर्तकत्वेन न विशेषणं व्यावय॑त्वाभावेन न विशेष्यमिति विशेषणविशेष्यलोपात्सन् घट इत्येवमप्यवक्तव्यस्तथा चैका. न्तस्वरूपविषयाभावादवाच्य इति सदसद्भयां घटस्य कथश्चिझेदाभेदालक्षणानेकान्ताभ्युपगमेतु विषयस्य सत्वेऽपि युगपत्तदुभयावबोधकस्यावक्तव्यशब्दातिरिक्तशब्दस्याभावेऽपितादृशस्थावक्तव्यशब्दस्य भावान सर्वथाऽवक्तव्यः किन्तु कथञ्चिदवक्तव्यः, अभेदवादकृततदोषस्य भेदवादेन परिहारसम्भवात् , न चाभेदैकान्तो घटस्य सदसद्भथामुक्तदोषभयाद् मा भवतु, भेदैकान्तस्तु तत्र घटत्वमनुद्य समवायेन सत्त्वस्य, विशेषणतया ऽसत्त्वस्य च विधानसम्भवादिति सच्चासत्वयोस्तथा विधानेन वक्तव्यतेति वाच्यं, अतिरिक्तसमवायविशेषणतयोरभावेन भेदैकान्तस्यापि विषयस्याभावात्तथाप्यवक्तव्यत्वादिति दशमः प्रकारः ॥ १० ॥
____ अथवा घटस्य व्यञ्जनपर्यायार्थपर्यायभेदेन पर्यायो द्विविधः तत्र येन घटत्वसामान्यलक्षणपर्यायेण घटमात्रे घटशब्दप्रवृत्तिस्स घट शब्दप्रवृत्तिनिमित्तघटत्वसामान्यलक्षणपर्यायो व्यञ्जनपर्यायः, प्रतिक्षणं घटव्यक्तेर्योऽन्यान्यरूपेण परिणामः सोऽर्थपर्यायः, तत्रार्थपर्याय एकस्य घटव्यस्तेर्नान्यघटवृत्तीति निजं रूपं, ततश्च निजेनार्थपर्यायरूपेण