________________
(७८)
घटोऽस्त्येवेति प्रथमभङ्गः, अथान्तरभूतेन व्यञ्जनपर्यायेण च नास्त्येव घट इति द्वितीयभङ्गः, ताभ्यां प्राधान्येन युगपद्विवक्षिताभ्यामभेदेन निर्दिष्टो घटो न केनचिद्वक्तुं शक्य इत्यवक्तव्य एव घट इति तृतीयो भङ्गः, अत्र प्रथमद्वितीयभङ्गोपपत्तिः सुकरैव, तृतीयभङ्गोपपत्तिस्विस्थम्-अभेदेन ताभ्यां घटस्य निर्देशो द्विधा सम्भवति व्यञ्जनपर्यायमनूध घटार्थपर्याय विधिः घटार्थपर्यायमनूद्य व्यजनपर्यायविधिश्च, तत्र प्रथमे व्यञ्जनपयायस्य घटसामान्यात्मकघटत्वस्य घटव्यक्त्यात्मकघटरूपार्थपर्यायाभेदस्तदैव सम्भवो यदि सकलघटस्वरूपतैकस्य घटस्य स्यादित्येकघटरूपार्थपर्यायस्याशेषवटास्मकत्वमापद्यतेति भेदनिबन्धनो योऽयं घटोऽन्यस्माद्धटा. द्भिन इति व्यवहारस्तस्य विलोपः स्यात् , द्वितीय घटार्थपर्यायात्मिका घटव्यक्तिव्यञ्जनपर्यायघटत्वसामान्यात्मिकैव भवेत, घटत्वसामान्यस्य नित्यत्वेन तदात्मकघटव्यक्तेरपि नित्यत्वमिति तत्र कार्यत्वन्न भवेदिति कार्यतयैव निर्णीतस्य घटस्य कार्यत्वाभावेऽभावादवक्तव्य एव घटः, अनेकान्तपक्षे तु युगपदभिधातुमशक्यत्वात्कथञ्चिवक्तव्य इत्येकादशमप्रकारः॥११॥
अतः परं पश्चप्रकाराः केवलमवक्तव्यत्वमवलम्ब्य तृतीयभङ्गमात्रसमर्थनप्रवणा उपदिश्यन्ते, तथाहि-एकमेकत्रैव सम्बद्धं भवितुमर्हति, कदाचित्सावयवमेकत्रैकेनावय