________________
वेन सम्बद्धं तदन्यत्रावयवान्तरेण सम्बद्धमित्यनेकसम्बद्धं सम्भावयितुं शक्येतापि, निरवयवस्य त्वेकस्यावयवद्वारेण सम्बन्धाभावाद्यत्र सम्बद्धं तत्र परिपूर्णस्वरूपमेव सम्बद्धम् , एवञ्चार्थान्तरभूतस्य निरवयवस्य सत्त्वस्य विशेषोऽन्त्यो यथैक एकत्रैव सम्बद्धत्वादनन्वयिरूपस्तथैवैकत्रैव सम्बद्धत्वादनन्धयिरूपता, अत एवान्त्य विशेषवदेव न तद्वाच्यम्, अन्त्यविशेषो निजस्वरूपोऽप्यनन्वयादेवावाच्यः, प्रत्येकावक्तव्याभ्यां ताभ्यामभेदेनादिष्टो घटोऽप्यवक्तव्य एव, अवक्तव्याभिन्नस्यावक्तव्यत्वस्यैव न्याय्यत्वात् , अनेकान्तपक्षे त्ववक्त. ब्वमपि घटधर्म इति तद्रूपेणावक्तव्यशब्देन वाच्यत्वम् , सत्यादिनाऽन्यशब्देनावाच्यत्वमिति कथञ्चिदवक्तव्य इति द्वादशमप्रकारः ॥ १२ ॥ ___ सत्त्वरजस्तमस्स्वरूपास्त्रयो गुणाः परस्परविरुद्धस्वभावाः प्रतिनियतजलाहरणादिलक्षणार्थक्रियाकारित्वं घटस्यैक्यपरिणतिमत्त्वेनेति प्रतिनिव्यतार्थक्रियाकारितावच्छेदकैक्यपरिगतिलक्षणसन्द्रुतरूपत्वाभावादसद्रूपाः प्रतिनियतार्थक्रियाकारितावच्छेदिकैक्यपरिणतिः सन्द्रुतरूपं, तत्र सन्द्रुतरूप निजम्, अपन्द्रतरूपमर्यान्तरं, ताभ्यामादिष्टो घटोवक्तव्यो भवति, अस्योपपत्तिरित्थम्-निरुक्तस्वस्वरूपस्य सन्द्रुतरूपस्य सचरजस्तमस्सु सद्भावे तेषामैक्य. असक्त्या विभिन्नरूपतापगमाविभिन्नस्वभावतालक्षणपरस्परवै