________________
(८०) लक्षण्येनैव सत्चत्वरजस्त्वतमस्त्वानां प्रत्येकधर्माणां सद्भावो नान्यथेति तेषामभावाद्विशेषणस्य सन्द्रुतरूपत्वस्य भावेऽपि विशेष्याणां विभिन्न स्वभावानां सत्वरजस्तमसां तदाऽभावादेवावक्तव्यः, यदि च सत्वरजस्तमस्सु निरुक्तैक्यपरिणतिलक्षणं सन्द्रुतरूपं नास्ति तदा तत्रासदेव सन्द्रुतरूपमुत्पन्नमितिनिरुक्तत्रिगुणाभ्युपगन्तुस्सत्कार्यवादिनस्साङ्ख्यस्यासत्कायोत्पादप्रसङ्गोऽनिष्ट आपद्येत, उक्तप्रसङ्गस्येष्टापत्या परिहारेऽपि सत्वरजस्तमस्स्वरूपत्रिगुणात्मके घटे त्रिगुणात्मकत्वादेव न सन्द्रुतरूपत्वमिति विशेषणस्य सन्दुतरूपस्याभावादेवावाच्यः, न च सत्त्वरजस्तमसां घटाविर्भावकाले सन्द्रुतरूपमस्तीति न विशेषणाभाव इति वाच्यं घटाविर्भावपूर्वकालावच्छेदेन सत्वरजस्तमस्सु असन्द्रुतरूपत्वं घटाविर्भावकालावच्छेदेन सन्द्रुतरूपत्वमित्येवं कालभेदेन सदसद्रूपसमावेशाभ्युपगमेऽनेकान्तवादप्रवेशापत्तेः, ननु घटाविर्भावपूर्वकाले शक्तिरूपेण तेषु सन्द्रुतरूपमस्ति न तु व्यक्तिरूपेण, शक्तिरूपेण सन्द्रुतरूपसत्त्वश्च न सत्त्वरजस्तमसां वैलक्षण्यस्य विघातकं, व्यक्तिरूपेण सन्तरूपन्तु घटसामग्रीत एवोपजायत इति चेत, न व्यकोराविर्भावरूपाया घटसामग्रीतः प्राक्काले सद्भावे सत्वरजस्तमसां सन्द्रुतरूपस्य प्रकटस्य सद्भावात परस्परवलक्षण्यस्वभावव्याघातात्, घटसामग्रीतः प्राक्काले सन्द्रुतरूपाविर्भावस्थासत्त्वे तु असतस्तस्य घटसामग्रीतो भावेनासत्कार्योत्पादप्रसङ्गतादवम्थ्यान् । ननु नैयायिकादिमते