________________
घटमत्वकाले भूतले सतोऽपि घटाभावस्य सम्बन्धाभावदत्र घटो नास्तीति न व्यवहारः, सम्बन्धश्च तस्य घटशून्यकालीनभृतलस्वरूपात्मा, स च तस्मिन्नेव भूतले घटापसारणदशायां घटाभावस्य समस्तीति तदानों भवत्यत्र भूतले घटो नास्तीति व्यवहारः, तथा साङ्ख्यमतेऽपि सन्द्रुतरूपस्य घटसामग्रीत: प्राक्काले सत्वेऽपि तत्कालावच्छिन्नस्वरूपात्मा नास्ति तस्य सम्बन्ध इति तदानीं न तत्र सन्द्रतरूपव्यवहारः, घटसामग्रीसम्पत्तौ च तत्कालावच्छिन्नस्वरूपात्मकस्य सम्बन्धस्य सद्भावाद्भवति तदानीं सन्द्रतरूपव्यवहार इति चेत् , न, केवलस्वरूपात्तत्कालावच्छिन्नस्वरूपस्य सर्वथाभेदे च केवलाधिकरणस्वरूपस्य सर्वदा भावात्तदात्मकसम्बन्धस्य बलाद्धटसत्त्वेऽपि भृतले घट भावव्यवहारापत्तिनैयायिकादीनाम् , सावानाञ्च घटसामग्रीसम्पत्तितःप्रागपि निरुक्तसम्बन्धसद्भावात्सन्दुतरूपव्यवहारापत्तिश्च स्यात् , केवलस्वरूपात्तत्कालावच्छिन्नस्वरूपस्य, सर्वथा भेदे च सर्वथामिन्नतदन्यस्वरूपवत्तस्यापि सम्बन्धत्वासम्भ वान ततो घटापमारणदशागमपि घटाभावव्यवहारो भवेत् , तथा घटसामग्रीसम्पत्तावपि तदुत्तरं सन्द्रुतव्यवहारश्च स्यादत उक्तसम्बन्धः कथश्चिद्भिन्न एवाभ्युपेयः स चानेकान्तवाद एव युज्यते न त्वेकान्तवाद इत्येकान्तवाद इत्थमप्यवक्तव्यः । इति त्रयोदश प्रकारः ।।१३।। अथवा रूपादयोऽनेकप्रत्ययग्राह्याः अर्थाद्भिनभिन्नबुद्धिवेद्या अत एवासंहृतरूपा अर्थान्तरभूताः, संहृतरूपत्वं सामुहिकप्रत्ययग्राह्यं निजं, ताभ्यामादिष्टो