________________
( ८२ )
घटोs वक्तव्यः तथाहि अरूपादिव्यावृत्ता रूपादयः यतोऽरूपव्यावृत्तं रूपमुच्यते, अरसव्यावृत्तो रस इति, अगन्धव्यावृत्तो गन्धः, अस्पर्शव्यावृत्तस्स्पर्शः एवञ्च परस्परविलक्षण बुद्धिग्राह्यानां रूपादीनां सामूहिक प्रत्ययग्राद्यत्वलक्षणस्य घटत्वस्यारूपत्वादिस्वरूपस्यासम्भवादेवमपि घटस्य रूपादिवाभ्पुपगमे परस्परव्यावृत्तस्वरूपरूपाद्यात्मको घटो नास्त्येवेति संहृतरूपविशेषणसद्भावेऽपि विशेष्यस्य घटस्य लोपादवाच्यः, रूपादेरप्यरूपादित्वाश्रयणे रूपादय एव न भवन्तीति रूपादीनामभावे के संहृतरूपतया विशेष्याः येनासंहृतरूपादयो घटो भवेदित्येवमवाच्य घट एकान्तवादे, अनेकान्ते तु संहृतासंहृतरूपयोः कथञ्चिदभेदस्य सम्भवाद्विषयस्य सद्भावेऽपि युगपत्तदुभयप्रतिपादकस्यावक्तव्यशब्दातिरिक्त शब्दस्याभावात्कथञ्चिदवाच्य इति चतुर्दशमकारः ॥ १४ ॥ अथवा रूपादिमान् घट इति व्यवहियते तत्र घटस्य मनुत्रर्थो निजं रूपं, रूपादयोऽर्थान्तरभूताः ताभ्यामादिष्टो घटोऽवाच्यः रूपाद्यामकैका कारावास प्रत्यय विषयव्यतिरेकेणापररूपसम्बन्धानवगतेर्मतुबर्थ लक्षणविशेष्याभावाद्रूपादिमान् घट इत्यवाच्यः, न चैकाकारप्रतिभासग्राह्यव्यतिरेकेणा पररूपादिप्रतिभास इति रूपादिलक्षण विशेषणाभावादप्यवाच्यः, अनेकान्तवादे तु कथञ्चिदवाच्यः, इति पञ्चदशप्रकारः ।। १५ ।। अथवा उपयोगमन्तरेण घटस्याप्रतिभासमानत्वादुपयोगो बाह्यस्तु सन्नपि ज्ञानमन्तरेण न व्यवहृतिपथमुपयातीति
"
निजः,