________________
(८३) सोऽर्थान्तरभूतः, ताभ्यामादिष्टोऽवक्तव्यः, तथाहि-य उपयोगः स घट इत्येवमुपयोगमनूध घटस्य विधाने उपयोगमात्रकमेव घट इति सर्वोपयोगस्य घटत्वप्रसक्त्या प्रतिनियतस्वरूपामावादवाच्यः, अथ यो घटः स उपयोग इत्येवं घटमनूयोपयोगो विधीयते तदाप्युपयोगस्यार्थत्वप्रसक्तिरित्युपयोगाभावे घटस्याप्पमात्र उपयोगाधीनसिद्धिकत्वाद्धटस्य, ततश्च विषयाभावात्कथं नावाच्यः इति षोडशपकारः ॥१६॥ एतदभिप्रायेणोक्तं सम्मतौ "अत्यंतरभूएहि य, णियएहि य दोहि समयमाईहिं ।। वयणविसेसाईअं, दब्बमवत्तव्ययं पडड ॥ १-३६ ॥" अर्थान्तरभूतश्च निजकैश्च द्वाभ्यां समकमा. दिभ्याम् ॥ वचनविशेषातीतं द्रव्यमवक्तव्यं पतति" इति संस्कृतम् , अस्यार्थः-अर्थान्तरभूतैनिजकैश्च पर्यायैः क्रमेण स्यात्सन् स्यादसन्निति द्वौ भङ्गो भवत इति शेषः, द्वाभ्यां चादिभ्यां प्रागुक्ताभ्यां प्रकाराभ्यां समकं युगपत् , विवक्षित. मिति शेषः, द्रव्यं वचनाविशेषातीतं स तथाविधवचनवाच्यता. नापनं सद्, अवक्तव्यकं पतति तृतीय भङ्गविषयतामास्कन्दतीति, अत्र च निमार्थान्तरपर्यायैरनेकान्तोपजीषिनगमव्यवहारविशुद्वतारतम्योपदर्शकवसतिदृष्टान्तनीत्या यथाक्रम स. ऋचद्भिः क्रमेण युगपञ्चादिष्टैरुपदर्शितेषु पोडशस्ववक्तव्यविकल्पेषु मध्ये एकादश त्रयोपि भङ्गाः सम्भान्ति, द्वादशादिषु पञ्चसु च स्वतन्त्रै कान्ले नयापितैस्तैः प्रत्येकं समुदाये च सर्वथाऽवक्तव्यत्वमङ्ग एवोत्तिष्ठते, स च बाधितः