SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ ( ८४ ) } सन् कथञ्चिदवक्तव्यत्वे पर्यवस्यति, तस्य कथञ्चिचं च भङ्गद्रयाधीनं इत्थञ्च त्रयाणां भङ्गानां क्रमाभिधानमेव सम्प्रदाय सिद्धमिति व्युत्पत्तिमहिम्ना ततोऽपि स्याद्वादविदुषो भङ्गत्रयसम्भव इति विवेकः इत्थञ्च यत्पशुपाले नोक्तं'सर्वत्राने कान्ताभ्युपगमे 'सर्वमस्ति स्वरूपेण पररूपेण नास्ति च' इति वचनमेवानुपन्नं स्वपररूपयोरप्यनिर्धारणादिति" तदपास्तं द्रष्टव्यं पूर्वं नयविशेषेण स्वपररूपयोः सङ्कोचविकासावुपजीव्य तदनुसारेणैव सप्तभङ्गीप्रवृत्तेः, अवच्छिन्नसप्रतिपक्षधर्मद्वयाभिधानस्थले एकान्ततोऽवच्छेदक निर्णयस्य तवाप्यभावात् इदानीं गोष्ठे गौर्न तु वाजिशालायामित्यादौ शुद्धगोष्ठादेरप्यवच्छेदकत्वस्य निर्णेतुमशक्यत्वात् इह कोणे गोष्ठे गौर्नापर कोणे इति प्रतिसन्धान एतत्कोणावच्छिन गोष्ठस्यैतत्कोणस्य वा तथात्वसम्भवात्, अवच्छेदकावच्छेदकस्यावच्छेदकसङ्कोचस्य वाsपरिस्फूर्ती शुद्धावच्छेदकपुरस्कारेण तत्परिस्फुर्ती तु सावच्छिन्नप्रकृतावच्छेदपुरस्कारेणैव प्रतिनियतदेशदेशावच्छेदेन वा निर्णयस्त्वावयोः समानः, देशदेशस्य नाव च्छेदकत्वमिति तु नीलपीतक पालिकास्थकपालसमवेतघटनीलप्रत्यक्षान्यथानुपपत्या परेण वक्तुमशक्यम्, तत्र नीलक + 1 पालिकावच्छिन्नचक्षुरसंयुक्तसमवायसम्बन्धावच्छिन्नाधारतयैव घटे नीलप्रत्यक्षोपपादनात् इयाँस्तु विशेषः, यत्परेषां देशदेशस्यावच्छेदकत्वं स्वाभाविक सम्बन्धविशेषेण, अस्माकं तु वैज्ञानिकसम्बन्धविशेषेण, तत्र परेषां परम्परासम्बन्धेन
SR No.008451
Book TitleSaptabhangimimansa
Original Sutra AuthorN/A
AuthorShivanandvijay
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy