________________
गोष्ठकोणस्य साक्षात्सम्बधेन च कोणावच्छिन्नगोष्ठस्य गवावच्छेदकत्वमिति कोणे गौन तु गोष्ठे इति सूक्ष्मेक्षिकानुपपत्तिः, अस्माकं तु मध्यमनगमभेदकृतवैज्ञानिकसम्बन्धेन गोष्ठकोण एव तथात्वं न तु गोष्ठ इति तदुपपत्तिः, न च कोणे गौर्न तु गोष्ठे इति सूक्ष्मेक्षिका न भवत्येव किन्तु न तु सम्पूर्णगोष्ठे इत्येव, सा च यावत्कोणेषु गवावच्छेदकतावच्छेदकत्वपर्याप्त्यभावमवगाहत इति परेषामपि नानुपपत्तिरिति वाच्यम्, एवं सति सम्पूर्णकोणेऽपि तदभावात्कोणे. गोष्ठे गौरित्यस्याप्यनुपपत्तेः,नयविशेषकृतसम्बन्ध विना नविचित्र. प्रतीत्युपपत्तिरिति ।
सकलादेशविकलादेशविभजनं चेत्थमुपदर्शितमुपा. ध्यायैः, तदुपदर्शनप्रयोजनन्तु सम्मतिरहस्यावेदनम् , तथाहि-एते च त्रयो भङ्गा गुणप्रधानभावेन सकल. धर्मात्मकैकवस्तुप्रतिपादकाः सन्तः सकलादेशाः, स्यात्कारपदलाञ्छितैतद्वाक्याद्विवक्षाकृतप्रधानभावसदायेकधर्मात्मकस्यापेक्षितापराशेषधमक्रोडीकृतस्य वाक्यार्थस्य प्रतीतेः, विपक्षाविचितहित्रिधर्मानुरक्तस्य स्यात्कारपदसंसूचितसकलधर्मस्वभावस्य धर्मिणो वाक्यार्थस्य प्रतिपादका। वक्ष्यमाणास्तु चत्वारो विकलादेशा इति केचित्सङ्गिरन्ते, ते चेमे-स्यादस्ति नास्ति च घट इति प्रथमो विकलादेशः १, स्यादस्त्यवक्तव्यश्च घट इति द्वितीयः २, स्यान्नास्ति,