Book Title: Saptabhangimimansa
Author(s): Shivanandvijay
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 196
________________ ( १४४ ) यद्यपि तत्त्वार्थाधिगमे कर्तव्ये अधिगमविषयास्तत्त्वार्थाः प्रथममुपदेष्टव्याः, विषयनिरूप्यं हि ज्ञानमधिगमशब्दप्रतिपाद्य विषयोपदर्शनमन्तरेण दुरधिगममतो जीवाजीवादयस्तत्वार्थाः प्रथमतोऽभिहिताः, न चाधिगमोपायमन्तरेण तेषामधिगम संभवतीत्यधिगमोपायभूतं प्रमाणं नयश्चाभिधातव्यं निक्षेपस्तु न तत्वं तन्त्रान्तरीयैस्सर्वथाऽनादृतस्वरूप एव, न चाधिगमोपायभूतप्रमाणनयापेक्षित इति कथमकस्मादेव तत्चस्वरूपतदधिगमोपायभूतप्रमाणनयस्वरूपोपदर्शनान्तराल एव निरूपणी. यभावमुपगच्छति, यदि चास्य तत्त्वस्वरूपत्वं, तदा तत्त्वपरिगणनप्रवणसूत्रेऽस्यापि सनिवेशो युक्तः, यदि वा तत्वार्थाधिगमोपायभूतस्सोऽभिमतस्तदा प्रमाणनयसमकक्षतया प्रमाणनययोरधिगमसाधनत्वेनोपदर्शके सूत्रेऽस्योपक्षेपो युक्तो भवेत् , यदि तु तत्त्वतदधिगमोपायविलक्षणमपि तत्त्वव्याख्यानाङ्गतयोपदेशाहोऽयं तदा सन्त्यन्यान्यपि तत्वव्याख्यानांङ्गानि तन्निरूपणप्रवणसूत्रसन्निधापितस्वरूप एवायं भवितुमर्हति, अथापि तत्वार्थप्रतिपादकपदशक्तिग्रहणप्रवणवचनसन्दर्भस्वरूप एवायं निक्षेपोऽनेन विना कस्यापि पदस्य स्वस्वप्रतिनियतार्थगोचरशक्तिग्रह एव न सम्भवति ततः प्रतिनियतार्थशक्त्यधिगतये निरूपणीयतामञ्चत्ययं, ततः तत्तच्छास्त्रप्रतिपाद्यं तत्वार्थोपदर्शकसूत्रादपि प्रथममस्य सूत्रर्ण न्याय्यं, निक्षेपं शक्तिग्राहकलक्षणमन्तेरण तत्वार्थप्रतिपादकसूत्रतोऽपि प्रतिनियतस्वार्थप्रतिशदनासम्भवात् , यदि च तत्त

Loading...

Page Navigation
1 ... 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228