Book Title: Saptabhangimimansa
Author(s): Shivanandvijay
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
निक्षेपमीमांसा जीपदस्य भावजीवे शक्तिमुक्तको शानिश्चिन्ननपि पुमान् या खलु भावजीव शब्दवाच्यः स जीवशब्दवाच्य इत्येवमेव निश्चिनुयात् , विवक्षितक्रियानुभूतिविशिष्टं स्वतत्त्वं यन्निक्षिप्यते स भावनिक्षेप इत्येवं लक्षणलक्षितं भावनिक्षपमनवधार्यमाणः प्रागधारणलक्षणजीवनक्रियामनुभवन् जीवो भावजीव इति नावधारयत्येवे त्यतो न कोशादितो निक्षेपस्य गतार्थता ।
ननु स्वर्गाधिपस्य शक्रस्य वाचकं यदिन्द्रपदं तस्य स्वर्गाधियो भावेन्द्रो वाच्य इति भावेन्द्र इन्द्रपदशक्य इत्येवं भावनिक्षेपस्तत्र शक्तिग्राहकः, गोपालदारके सङ्केतितं यदिन्द्रपदं तस्य नामेन्द्रो गोपालदारको वाच्य इति नामेन्द्र इन्द्रपदशक्य इत्येवं नामनिक्षेपस्तत्र शक्तिग्राहको भवतु नाम, किन्तु गोपालदारके पित्रादिना इन्द्रनामैव सङ्केतितं न तु तद्यतिरिक्तं नाम तत्र सङ्केतितं समस्ति, तथा च तत्र भावनिक्षपादिप्रवृत्तिः कथं, भावेन्द्र इन्द्रपदवाध्य इत्येवं भावनिक्षेपो गीर्वाणनाथस्य भावेन्द्रस्येन्द्रपदशक्तिग्राहको न तु गोपालदारकस्य यदसाधारणस्वरूपं तस्येन्द्रपदशक्यत्वग्राहको येन तदपेक्षया भावनिक्षेपोऽयं भवेत् , तथा स्थापनेन्द्र इन्द्रपदशक्य इत्येवं प्रवर्तमानस्तत्र स्थापनानिक्षेपः स्वर्गाधिपस्येन्द्रस्य या सद्भूता स्थापनाऽसद्भूता वा तस्या इन्द्रपदशक्तिग्राहक इति भावेन्द्राकृत्यपेक्ष्या स्थापनानिक्षेपोऽयं न तु गोपालदारकस्य या प्रतिकृतिस्तस्या इन्द्रपदशक्तिग्राहक इति न तदपेक्षया

Page Navigation
1 ... 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228