Book Title: Saptabhangimimansa
Author(s): Shivanandvijay
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
३०
-
-
-
मुनिशिवानन्दविजयविरचितातद्योगित्वे सति द्रव्यत्वं द्रव्यनिक्षेपत्वं, तद्योगित्वे सति भावत्वं भावनिक्षेपत्वमित्येवं प्रत्येकं नामनिक्षेपादीनां लक्षणं सुखेनाक. धारयितु शक्यते, यञ्च शक्तिग्राहकाथशब्दरचनाविशेषो निक्षेप इति निक्षेपसामान्यलक्षणं यदाश्रयणेन नामस्थापनाद्रव्यभावघटेषु घटशब्दो निक्षिप्यते इत्येवं निक्षेपव्यवहारः, तत्र नामादिषु चतुर्ष पदानां शक्त्यवबोधकं वचनं निक्षेप इति निक्षेपसामान्यलक्षणं तावन्न संभवति यतः सामान्यलक्षणं तदेव भवति यदशेषेषु विशेषेष्वनुयायि भवति, न चोक्तलक्षणं प्रत्येकं नामनिक्षेपादिषु समस्ति, नामघटो घटपदशक्य इति नामनिक्षेपे नामघटमात्र घटपदशक्तिग्राहिणि, स्थापनाघटो घटपदशक्य इति स्थापनानिक्षेपे स्थापनाघटमात्रे घटपदशक्तिग्राहिणि, द्रव्यघटो घटपदशक्य इति द्रव्यनिक्षेपे द्रव्यघटमात्रे घटपदशक्तिग्राहिणि, भावघटो घटपदशक्य इति भावनिक्षेपे भावघटमात्रे घटपदशक्तिग्राहिणि, नामादिषु चतुषु शक्त्यवबोधकवचनत्वाभावात् । नापि नामस्थापनाद्रव्यभावान्यतमेषु शक्तिप्रतिपादकवचन निक्षेप इति निक्षेपसामान्यलक्षण सम्भवति, यद्यपीद नामनिक्षेपादिषु प्रत्येकमपि वर्तते नामाधन्य. तमत्वस्य नामाकैकमात्रेऽपि सन्चात् तथापिघटे कारोत्तराकारोत्तरटकारोत्तरात्वरूपानुपूर्वीसमाकलित घटनामस्ववाच्यत्वसम्बन्धेन वर्तते, घटभावार्थवियुक्त घटनाम्ना सङ्केतित वस्त्वन्तरलक्षणं च घटनाम नामघटइत्येव्यरहियमाणं स्वसङ्केतितनाम

Page Navigation
1 ... 222 223 224 225 226 227 228