Book Title: Saptabhangimimansa
Author(s): Shivanandvijay
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
निक्षेपमीमांसा त्पदशक्तिग्राहककोशादितो निक्षेपमन्तरेणापि तत्तत्सूत्रार्थप्रतिपत्तिस्सम्भवतीति विभाव्यते तर्हि कोशादित एव व्याख्यानान्तरमप्युपपद्यत इत्यानर्थक्य मेवास्य, तथापि, अतत्वेन तत्वव्यवस्थायास्त त्तत्तत्वप्रतिपादकपदशक्तिग्रहस्य प्रकरणादि. वशोपजाताऽप्रतिपत्तिसंशयविप्रतिपत्तिव्यवच्छेदफलकयथास्था. नविनियोगस्य चानुपपत्तेस्तत्वनीगितिनिबन्धनयोः प्रमाणनययोरिव जीवपदं नामजीवे स्थापनाजीवे द्रव्यजीवे भावजीवे च शक्तमित्येवं शक्तिग्राहकस्य शब्दार्थरचनाविशेषलक्षणस्य निक्षेपस्य जीवनामकनृपादिवर्णने प्रसङ्गाजीवः स्वमन्त्रिणा सार्द्धमित्यादिवाक्ये जीवपदेन जीवनाम्नो नृपविशेषस्यैव ग्रहणं न तु सचमात्रस्वरूपस्य भावजीवस्य, तथा बुद्ध युपरचितसंस्थानविशेषानुकारजीवप्रतिकृतिप्रतिष्ठोपजातमाहात्म्यजीवप्रतिमादर्शन प्रसङ्गे जीवं द्रष्टुमेते गच्छन्तीत्यदौ जीवपदेन स्थापनाजीवस्यैव ग्रहणं न तु भावजीवादेः, तथा यो मनुष्य आयत्यां देवो भविष्यति स भाविदेवावस्थाजीव. कारणत्वाव्यजीस्तदुपवर्णनप्रसङ्गे तं जीवं द्रष्टुमिच्छामि यो देवत्वमवाप्स्यतीत्यादिवाक्ये जीवपदेन द्रव्यजीवस्यैव जीवविशेषस्य ग्रहणं न तु नामजीवादेः, एवं उपयोगलक्षणो जीवः उपयोगो जीवस्य लक्षणमित्यादिवाक्ये जीवपदेन भावजीवस्यैव ग्रहणं, न तु नामजीवादेरित्येवमप्रस्तुतार्थापाकारणप्रस्तुतार्थव्याकरणप्रयोजनकस्य तत्वार्थस्वरूपत्वमेव, शक्तिग्राहकशब्दार्थरचनाविशेषलक्षणस्यास्य तन्त्रान्तरीयैनिक्षे.

Page Navigation
1 ... 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228