Book Title: Saptabhangimimansa
Author(s): Shivanandvijay
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 199
________________ निक्षेपमीमांसा द्वैविध्यम्, तत्र प्रत्यक्षस्य सांव्यवहारिकपारमार्थिक भेदेन द्विविधत्वम् , तत्रापि सांव्यवहारिकत्येन्द्रियानिन्द्रियज भेदेन द्वैविध्यम् , पारमार्थिकस्यापि सकलविकलभेदेन द्वैविध्यं तत्र सकलस्य केवलज्ञानस्यैकविधत्वमेव । विकलस्य तु अवधिमन:पर्यवभेदेन द्वैविध्यम् , परोक्षस्य च स्मरणप्रत्यभिज्ञानतर्कानुमानागमभेदेन पञ्चविधत्वम् , सर्वेषां च प्रत्यक्षप्रभेदानां परोक्षप्रभेदानां च प्रामाण्यमनुमतम् ,तदर्थं प्रमाणतयाऽभिमतेषु सर्वेषु ज्ञानेषु साक्षात्परम्परया वा स्याद्वादसंस्कारोऽपेक्षणीयः, स्याद्वादसंस्कारवलादेव च प्रतिनियतधर्मप्रकारेण वस्तुग्राहिण्यपि ज्ञाने तद्वस्तुगतास्सर्वेऽपि धर्माः प्रतिभासन्ते, एतावास्तु विशेषो यद्धर्मादीनां तत्तज्ज्ञानासाधारणकारणेन्द्रियादिवलात्प्रतिभासनं तत्तद्धर्माकारोल्लेखशालितया तज्ज्ञानस्यानुभवनं, स्याद्वादसंस्कारावभासितानां च धर्माणां तु तत्र प्रतिभासनेऽपि न तत्तदाकारोल्लेखः। खण्डनवाद्ये च स्थैर्यसाधकप्रत्यभिज्ञास्वरूपोपवर्णनप्रसङ्गे स्याद्वादसंस्कारबलाच्छाब्दबोधानात्मकेऽपि प्रत्यभिज्ञाने सप्तभङ्गीपरिदृष्टधर्मावभासनं पूज्यपादैः श्री. मद्भियशोविजयोपाध्यायैरुपपादितम् , एतावता स्याबादसस्कारपरिकर्मितमतीनां प्रमातृणां यद्यत्प्रत्यक्षात्मकं परीक्षात्मकंवा प्रमाणं तदनन्तधर्मात्मकवस्तुविषयकत्वा प्रमाणमिति सिद्धं भवति, तथा च तत्तत्पदप्रतिनियतार्थगोचरशक्तिग्राहकत्वानिक्षेपस्य यथाश्रुतप्रमाणापेक्ष्यत्वं तथा प्रमाणान्तरापेक्ष्यत्वमयि, प्रमाणान्तराणामपि स्याद्वादसंस्का

Loading...

Page Navigation
1 ... 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228