________________
निक्षेपमीमांसा द्वैविध्यम्, तत्र प्रत्यक्षस्य सांव्यवहारिकपारमार्थिक भेदेन द्विविधत्वम् , तत्रापि सांव्यवहारिकत्येन्द्रियानिन्द्रियज भेदेन द्वैविध्यम् , पारमार्थिकस्यापि सकलविकलभेदेन द्वैविध्यं तत्र सकलस्य केवलज्ञानस्यैकविधत्वमेव । विकलस्य तु अवधिमन:पर्यवभेदेन द्वैविध्यम् , परोक्षस्य च स्मरणप्रत्यभिज्ञानतर्कानुमानागमभेदेन पञ्चविधत्वम् , सर्वेषां च प्रत्यक्षप्रभेदानां परोक्षप्रभेदानां च प्रामाण्यमनुमतम् ,तदर्थं प्रमाणतयाऽभिमतेषु सर्वेषु ज्ञानेषु साक्षात्परम्परया वा स्याद्वादसंस्कारोऽपेक्षणीयः, स्याद्वादसंस्कारवलादेव च प्रतिनियतधर्मप्रकारेण वस्तुग्राहिण्यपि ज्ञाने तद्वस्तुगतास्सर्वेऽपि धर्माः प्रतिभासन्ते, एतावास्तु विशेषो यद्धर्मादीनां तत्तज्ज्ञानासाधारणकारणेन्द्रियादिवलात्प्रतिभासनं तत्तद्धर्माकारोल्लेखशालितया तज्ज्ञानस्यानुभवनं, स्याद्वादसंस्कारावभासितानां च धर्माणां तु तत्र प्रतिभासनेऽपि न तत्तदाकारोल्लेखः। खण्डनवाद्ये च स्थैर्यसाधकप्रत्यभिज्ञास्वरूपोपवर्णनप्रसङ्गे स्याद्वादसंस्कारबलाच्छाब्दबोधानात्मकेऽपि प्रत्यभिज्ञाने सप्तभङ्गीपरिदृष्टधर्मावभासनं पूज्यपादैः श्री. मद्भियशोविजयोपाध्यायैरुपपादितम् , एतावता स्याबादसस्कारपरिकर्मितमतीनां प्रमातृणां यद्यत्प्रत्यक्षात्मकं परीक्षात्मकंवा प्रमाणं तदनन्तधर्मात्मकवस्तुविषयकत्वा प्रमाणमिति सिद्धं भवति, तथा च तत्तत्पदप्रतिनियतार्थगोचरशक्तिग्राहकत्वानिक्षेपस्य यथाश्रुतप्रमाणापेक्ष्यत्वं तथा प्रमाणान्तरापेक्ष्यत्वमयि, प्रमाणान्तराणामपि स्याद्वादसंस्का