________________
मुनिशिवानन्दविजयविरचिता
रोपजातानन्तधर्मग्राहकत्वस्वभावानां शक्तिग्रहापेक्षया अवश्यम्भावात् , तथा नयापेक्ष्यत्वमपि निक्षेपस्य, यतोऽनन्तः धर्मात्मकवस्तुग्राहिणः प्रमाणादेवानन्तधर्मात्मनो वस्तुनः सिद्धिः किन्तु अनन्तधर्मेषु परस्परविरुद्धा अपि धर्माः सन्निविष्टाः यथा भेदाभेदी नित्यत्वानित्यत्वे सत्वासत्वे सामान्यविशेषावित्येवमादयस्तेषां च विरोधोन्मूलनसमर्थापेक्षाभेदोपनायकनयाश्रयणमन्तरेण नाविरुद्धतयाऽवगतिर्भवितुमर्हति जाग्रति च तेषां विरोधे जायमानमपि ज्ञानमाहार्य संशयात्मकं वा भवेत् , अतोऽनन्तधर्मात्मकवस्त्वंशभूततत्तद्धर्मस्यापेक्षाभेदेन ग्राहको नयोऽम्युपगतः, अनन्तधत्मिकस्य वस्तुनः प्रमाणान्तरपरिच्छेद्यत्वेऽपि यच्छ्रतप्रमाणपरिच्छिन्नानन्तधर्मात्मकवस्त्वंशावगाहिप्रमात्रभिप्रायस्यैव नयत्वमभिमतं तेन तत्तत्प्रतिनियतनिमित्तापेक्षया तत्तद्धर्मावबोधकशब्दप्रभवज्ञानस्यैव नयत्वमुन्नीयते, अत एव श्रुतप्रमाणांशा एव नयाः, यदापि प्रत्यक्षादिप्रमाणकारणादप्येकांशग्राहिणो नयस्य यस्स्वभावस्स तस्याप्यभ्युपेय एक, अन्यथा प्रमाणानां कारणभेदेन प्रत्यक्षादिभेदाभ्युपगमो नयानां च विषयभेदकृत एव मेद इति कथं स्यात्, एवञ्च शब्दसमुत्थस्य नयस्य शक्तिग्राहकनिक्षेपप्रभवत्वं स्वीकरणीयमेवेति नयापेक्ष्यत्वमपि निशेपस्य सिद्धं भवति, यथा च निक्षेपः प्रमाणेनापेक्षणीयो नयेन च, तथा प्रमाणनयावपि निक्षेपेणापेक्षणीयौ तत्र