________________
मुनि शिवानन्द विजय विरचिता
पशब्देनानभिधानेऽध्यादरणं समस्त्येव, " व्यक्त्या कृतिजातयः पदार्थां" इत्येवमभ्युपमच्छद्भि गौतमीयैर्द्रव्य स्थापनाभावनिक्षेपाः अभ्युपगताः, यतो व्यक्तिर्द्रव्यम्, आकृतिः स्थापना, जातिर्भाव इत्येवं निरुक्त निक्षेपत्रयाभ्युपगमस्तेपां स्पष्टं प्रतीयते, घटमुच्चारयतीत्यत्र घटनाम्नो घटशब्दार्थत्वाभावे घटाद्यर्थानामुच्चारणकर्मत्वाभावात्तद्वाक्यं नान्वयबोधं प्रमात्मकं जनयेदिति तत् प्रामाण्यान्यथानुपपच्या नाम्नोऽपि पदार्थत्वं स्वीकरणीयमेवेति, वैयाकरणैर्नाम्नः स्ववाच्यत्वं स्वीकृतमेवेति न निक्षेपस्य नामादिचतुष्टयरूपतया स्याद्वादिभिरभ्युपगतस्य तन्त्रान्तरीयैस्सर्वथाऽनादृतस्वरूपत्वम् तच्चार्थाधिगमोपायभूतेन प्रमाणेन नयेन चावश्यमपेक्षितव्य एव निक्षेपः, यतः श्रुतप्रमाणं तावच्छक्तिग्रहादेवोपयोगस्वरूपमुपजायत इति कारणतयैव तत्रापेक्षणीयो निक्षेपः, शब्दरूपस्यापि श्रुतस्य शक्तिग्रहसहकृतस्यैव शाब्दप्रमाजनकत्वात्प्रामाण्यं नान्यथेति सहकारिविधया तस्यापि निक्षेपाऽपेक्षा, स्याद्वाद - केवलज्ञाने सकलार्थविभासने इति वचनात्किचिद्विध्युपेतस्य श्रुतलक्षणवाक्यस्यैवानन्तधर्मात्मक वस्तु विषयकज्ञानलक्षणममजनकत्वेन प्रामाणं, तजनितस्यैव शाब्दबोधस्यानन्तधर्मात्मकवस्तुविषयकत्वेन प्रामाण्यमिति वस्तुगत्या स्याद्वादप्रभवशाब्दज्ञानकेवलज्ञानयोरेव प्रामाण्यम्, ज्ञानान्तरस्य च नानन्तधर्मग्राहित्वमिति नानन्तधर्मात्मकवस्तुप्रा हित्वमिति तल्लक्षणं प्रा माण्यं संङ्गतिमङ्गति, शास्त्रे च प्रत्यक्षपरोक्षभेदेन प्रमाणस्थ
ॐ
1