________________
( १४४ ) यद्यपि तत्त्वार्थाधिगमे कर्तव्ये अधिगमविषयास्तत्त्वार्थाः प्रथममुपदेष्टव्याः, विषयनिरूप्यं हि ज्ञानमधिगमशब्दप्रतिपाद्य विषयोपदर्शनमन्तरेण दुरधिगममतो जीवाजीवादयस्तत्वार्थाः प्रथमतोऽभिहिताः, न चाधिगमोपायमन्तरेण तेषामधिगम
संभवतीत्यधिगमोपायभूतं प्रमाणं नयश्चाभिधातव्यं निक्षेपस्तु न तत्वं तन्त्रान्तरीयैस्सर्वथाऽनादृतस्वरूप एव, न चाधिगमोपायभूतप्रमाणनयापेक्षित इति कथमकस्मादेव तत्चस्वरूपतदधिगमोपायभूतप्रमाणनयस्वरूपोपदर्शनान्तराल एव निरूपणी. यभावमुपगच्छति, यदि चास्य तत्त्वस्वरूपत्वं, तदा तत्त्वपरिगणनप्रवणसूत्रेऽस्यापि सनिवेशो युक्तः, यदि वा तत्वार्थाधिगमोपायभूतस्सोऽभिमतस्तदा प्रमाणनयसमकक्षतया प्रमाणनययोरधिगमसाधनत्वेनोपदर्शके सूत्रेऽस्योपक्षेपो युक्तो भवेत् , यदि तु तत्त्वतदधिगमोपायविलक्षणमपि तत्त्वव्याख्यानाङ्गतयोपदेशाहोऽयं तदा सन्त्यन्यान्यपि तत्वव्याख्यानांङ्गानि तन्निरूपणप्रवणसूत्रसन्निधापितस्वरूप एवायं भवितुमर्हति, अथापि तत्वार्थप्रतिपादकपदशक्तिग्रहणप्रवणवचनसन्दर्भस्वरूप एवायं निक्षेपोऽनेन विना कस्यापि पदस्य स्वस्वप्रतिनियतार्थगोचरशक्तिग्रह एव न सम्भवति ततः प्रतिनियतार्थशक्त्यधिगतये निरूपणीयतामञ्चत्ययं, ततः तत्तच्छास्त्रप्रतिपाद्यं तत्वार्थोपदर्शकसूत्रादपि प्रथममस्य सूत्रर्ण न्याय्यं, निक्षेपं शक्तिग्राहकलक्षणमन्तेरण तत्वार्थप्रतिपादकसूत्रतोऽपि प्रतिनियतस्वार्थप्रतिशदनासम्भवात् , यदि च तत्त