________________
अर्हम् ।
॥ श्रीकदम्बा चलतीर्थेशमहावीराय नमः || ॥ सर्वलब्धिसंपन्नाय श्रीगौतमगणभृते नमः ॥ सकल-स्वपर समयपारावारपारीण- सर्वतन्त्रस्वतन्त्र सूरिचक्रचक्रवर्ति-शासन सम्राट्- जगद्गुरु-तीर्थसंरक्षकप्रवण प्रभूततीर्थोद्धारक विद्यापीठादिप्रस्थानपञ्चकसमाराधक -- तपोगच्छाधिपति भट्टारकाचार्यवर्य - श्रीमद्विजयने मिसूरीश्वर पहालङ्कारान्तेवासि. सि. द्धान्त वाचस्पति- न्यायविशारदाचार्य श्रीविजयोदयसूरि-पट्टालङ्करान्तेवासि - न्यायवाचस्पति-सिद्धान्तमार्तण्ड - शास्त्रविशारद - कविरत्नाचार्यश्रीविजयनन्दनसूरिशिष्यरत्नमुनिश्रीशिवानन्दविजयप्रणीता|| श्री निक्षेपमीमांसा ॥
एन्द्रश्रेणीनतं वीरं, प्रमाणनयदर्शिनम् । विशुद्धसर्वनिक्षेप, नौमि कादम्बतीर्थेशम् ॥ १ ॥ वर्त्तमानगणाधीशं सर्वतन्त्रस्वतन्त्रकम् । विजयनेमिसूरीश, प्रौढ साम्राज्य शालिनम् ॥ २ ॥ उदयसूरिनामानं सर्वराद्धान्तवेदिनम् ।
श्रीमन्नन्दनसूरीश, न्यायशास्त्रविशारदम् ॥ ३ ॥ एतान् पूज्यान्नमस्कृत्वा, शिवानन्दाभिधोमुनिः । कुर्वे निक्षेपमीमांसां, नयविचारगर्भिताम् ॥ ४ ॥
.