Book Title: Saptabhangimimansa
Author(s): Shivanandvijay
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 189
________________ ( १३७ ) , " जीवं गृह्णाति, न तु सिद्धम्, तत्र जीवनार्थानुपपतेः, नोजीव इति चाजीवद्रव्यं सिद्धं वा, अजीव इति चाजीवद्रव्यमेव, aisata इति च स्थमेव । जीवदेशप्रदेशौ तु सम्पूर्णग्राहिणाऽनेन न स्वीक्रियेते, इत्यस्माकं प्रक्रिया । केचित्तु (दिगम्बराः) एवम्भूताभिप्रायेण सिद्ध एव जीवो भावप्राणधारणात्, न तु संसारी इति परिभाषन्ते, तदाहु:- " तिक्काले च दुपाणा इंदियवलमाउआणपाणी अ । ववहारा सो जीवो णिच्छयदो दु चेदणा जस्स || ३ || इति, द्रव्य संग्रहे । । न च द्विचेतनाशाली संसार्यपि जीव एवेति वाच्यं, शुद्ध चतन्यरूपनिश्रयप्राणस्य सिद्धेनैव धरणात् न च संसारिचैतन्यमपि निश्चयतः शुद्धमेव, उपरागस्य तेन प्रतिक्षेपात् तदुक्तम्" मग्गणगुणठाणेहि अ, चउदस्य हवंति तह असुद्भणया । विष्णेया संसारी, सव्वे सुद्धा उ ( हु ) सुद्धाया ।। १३ ।। इति द्रव्यसंग्रहे । " इतीति वाच्यम्, एकीकृतनिश्चयेन तथा ग्रहणेऽपि पृथक्कृतनिश्चयभेदेन तदग्रहणादिति तच्चिन्त्यम् एवम्भूतस्य जीवं प्रत्यौदायिक भावग्राहकत्वात् न चास्य क्रियाया एव प्रवृतिनिमित्वात् धात्वर्थ एव भावनिक्षेपाश्रयणे शुद्धधर्मग्राहकत्व - मध्यनावाधमिति वाच्यम्, यादृशधात्वर्थमुपलक्षणीकृत्येतरनयार्थ प्रतिसन्धानं तादृशधात्वर्थप्रकारकजिज्ञास्यैव प्रसङ्गसङ्गत्यैवम्भूताभिधानस्य साम्प्रदायिकत्वात, अन्यथा तत्रापि निक्षेपान्तराश्रयणेऽनवस्थानात् प्रकृतमात्रापर्यवसानादद्वैते शुन्यतायां वा पर्यवसानात् किञ्चैताहगुपरितनैवम्भूतस्य " *

Loading...

Page Navigation
1 ... 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228