________________
( १३७ )
,
"
जीवं गृह्णाति, न तु सिद्धम्, तत्र जीवनार्थानुपपतेः, नोजीव इति चाजीवद्रव्यं सिद्धं वा, अजीव इति चाजीवद्रव्यमेव, aisata इति च स्थमेव । जीवदेशप्रदेशौ तु सम्पूर्णग्राहिणाऽनेन न स्वीक्रियेते, इत्यस्माकं प्रक्रिया । केचित्तु (दिगम्बराः) एवम्भूताभिप्रायेण सिद्ध एव जीवो भावप्राणधारणात्, न तु संसारी इति परिभाषन्ते, तदाहु:- " तिक्काले च दुपाणा इंदियवलमाउआणपाणी अ । ववहारा सो जीवो णिच्छयदो दु चेदणा जस्स || ३ || इति, द्रव्य संग्रहे । । न च द्विचेतनाशाली संसार्यपि जीव एवेति वाच्यं, शुद्ध चतन्यरूपनिश्रयप्राणस्य सिद्धेनैव धरणात् न च संसारिचैतन्यमपि निश्चयतः शुद्धमेव, उपरागस्य तेन प्रतिक्षेपात् तदुक्तम्" मग्गणगुणठाणेहि अ, चउदस्य हवंति तह असुद्भणया । विष्णेया संसारी, सव्वे सुद्धा उ ( हु ) सुद्धाया ।। १३ ।। इति द्रव्यसंग्रहे । " इतीति वाच्यम्, एकीकृतनिश्चयेन तथा ग्रहणेऽपि पृथक्कृतनिश्चयभेदेन तदग्रहणादिति तच्चिन्त्यम् एवम्भूतस्य जीवं प्रत्यौदायिक भावग्राहकत्वात् न चास्य क्रियाया एव प्रवृतिनिमित्वात् धात्वर्थ एव भावनिक्षेपाश्रयणे शुद्धधर्मग्राहकत्व - मध्यनावाधमिति वाच्यम्, यादृशधात्वर्थमुपलक्षणीकृत्येतरनयार्थ प्रतिसन्धानं तादृशधात्वर्थप्रकारकजिज्ञास्यैव प्रसङ्गसङ्गत्यैवम्भूताभिधानस्य साम्प्रदायिकत्वात, अन्यथा तत्रापि निक्षेपान्तराश्रयणेऽनवस्थानात् प्रकृतमात्रापर्यवसानादद्वैते शुन्यतायां वा पर्यवसानात् किञ्चैताहगुपरितनैवम्भूतस्य
"
*