________________
(१३८) प्राक्तनैवम्भूताभिधानपूर्वमेवाभिधानं युक्तम् , अन्यथाऽप्राप्तकालत्वप्रसङ्गात् , तस्माद्वयहाराद्यभिमतव्युत्पत्त्यनुरोधेनौदायिकमावग्राहकत्वमेवास्य सूरिभिरूक्तं चैतदिति स्मतव्यम, न घेन्द्रियरूपप्राणानां क्षायोपशमिकत्वात्कथमेवम्भूतस्यौदयिकभावग्राहकत्वमित्याशङ्कनीयम् , प्राधान्येनायुष्कर्मोदयलक्षणस्यैव जीवनार्थस्य ग्रहणात् , उपहतेन्द्रियेऽप्यायुरुदयेनैव जीवननिश्चयात् , ननु यदि जीवं प्रत्यौदयिकभाव एव गृह्यत एवम्भूतेन, कथन्तर्हि भावपाणयोगाद्भवतामपि सिद्धस्य जीवत्वं श्रीमलयगिरिप्रभृतिभिरुक्तमिति चेत् ? भावपञ्चकग्राहिनैगमाद्यभिप्रायेणेति गृहाण, अत एव प्रज्ञापनादौ जीवनपर्यायविशिष्टतया जीरस्य शाश्वतिकत्वमभिदधे । यदि पुनः प्रस्थकन्यायाद्विशुद्धतरनैगमभेदमाश्रित्य प्रागुक्तस्वग्रन्थगाथा व्याख्यायते परैः, तदा न किञ्चिदस्माकं दुष्यतीति किमल्पीयसि दृढतरक्षोदेन, सिद्धोऽप्येतन्नये सत्त्वयोगात्सत्त्व, अतति सततमपगपरपर्यायान्गच्छतीत्यात्मा चस्यादेव,अस्याप्युपदर्शिततच्चो भावनिक्षेप एवाभिमतः" इति, नामा-स्थापना-द्रव्यभावान्यतमापेक्षयाऽस्तिनास्तित्वादिसप्तधर्मबोधजनन्यां सप्तभङ्गयां पदानां नामस्थापनाद्रव्यभावान्यतमविषयशक्तिग्राहकतया नामस्थापनाद्रव्यभावनिक्षेपाणामुपयोगः, नैगमसङ्गहव्यवहारर्जुसूत्राणामर्थनयानामर्थन यसमुन्थसप्तमङ्गयामुपयोगः,साप्रतसमभिरूढवम्भूतानां शब्दनयानाञ्च शब्दनयसमुत्थसप्तभङ्गयामुपयोग इति सप्त भङ्गीनिरूपणे प्रकान्ते प्रासङ्गिकं नयनिक्षेपनिरूपणं नायुक्त मिति बोध्यम् ।।