________________
॥ अथ प्रशस्तिः ॥
सेयं मानसमुद्भवा मितिमतौ हेतुस्वभावं गता, भङ्गं भङ्गमुदीरिता जिनमताभिः प्रमाणात्मिका । नीत्युत्था नयबोधजन्मनिरता नीतिस्वभावा मता, आभ्यां वादरणे पराभिभवतो वादीजयी निर्भयः ॥१॥ यस्यां यन्त्रययोजनाबलभवो भङ्गो मवेदादिमस्तन्नीतिप्रतिपक्षनीतिघटना जातो द्वितीयो भवेत् । तन्नीतिद्वययोजनोपजनिता भङ्गास्स्युरन्ये यथा, स्थानं सङ्घटितास्तु तन्नयभवा सा सप्तमङ्गी मता ॥२॥ तत्तद्भङ्गनिविष्टशब्दघटना नामादिनिक्षेपजा, तस्मादेव परिस्फुटार्थमननं निक्षेपविद्भिर्मतम् । सापेक्षांशसमन्वयोऽपि नयतो भाव्यो विरोधापहो, धर्मास्सप्त तदैव चैकनिलये स्युस्सङ्गता नान्यथा ॥३॥ योऽशो यन्त्रयगोचरीकृततनुभेङ्गे समुद्भासते, भिन्नांशप्रविविक्ततावगतये यत्तनिमित्तं भवेत् । तन्त्रीत्यैव समर्थनं ननु मतं तस्याप्यसङ्कीर्णता, चैवं स्यात्प्रतिभङ्गगा नयकृता तत्सप्तमङ्गो मिता ॥४॥ सर्वज्ञेतरवक्ट के तु वचने नो कुत्र दोषान्वयः, सन्तः के तदपाकृतौ न प्रवणाः सन्ति कृपासागराः। स्याद्वादामृतलेशतो गुणततेस्त्र प्रपोषो महान् , नाभ्ययाः कृतिनोऽत्र शोधनविधी ते तत्प्रयत्नास्स्वयम् ।।५।। श्रीमन्तो जिनदर्शनोदयरतास्सत्कल्पभूनन्दनाः, विज्ञानामलपद्मजामृतलसल्लावण्यशास्त्राकुराः।