________________
( १४० )
स्वां नो तीर्थसमुन्नति प्रभृतिके कस्तूरसा श्लाघते, इत्यादिस्तुतिगोचरा मतिमतां नित्यं शिवानन्ददाः ॥६॥ भूपालैः प्रणता विशिष्टमतिभिश्शिष्य प्रशिष्यैनुताः, व्याख्यानैर्मितिनीतितत्त्व सुभगैधर्मपथोद्योतकाः । तीर्थोद्वारपरायणाः सुकृतिनामग्रेसरैः पूजिताः, सूरीणां मुकुटाः जयन्ति भुवने श्रीनेमिसूरीश्वराः ॥ ७॥ तत्पट्टेऽमितधीधनाग्रय उदय श्रीमानमन्दप्रभः, सूरीशोऽसमशक्ति बुद्धिकलितानैकान्तशास्त्रव्रजः । सिद्धान्तोदधिपारगो जनमत श्रद्धाऽद्वितीयालयः, शिष्याध्यापनकर्मठो विजयते व्याख्यानवाचस्पतिः ॥ ८ ॥ तन्पट्टे गुणनन्दनोऽनुपमया बुद्ध्या प्रगल्भोऽखिले, तन्त्रे गूढरहस्य वेदपटुः स्याद्वादविद्याचणः । श्रीमान्नन्दनसूरिरामप्रवरे नेम्याख्यसूरीश्वरे, भक्तोऽनन्यतया सुकल्पन निधिजीयाच्चरित्रकभूः ॥ ९ ॥ तच्छिष्येण तदात्ततच्च मतिना सिद्धान्त सेवात्मिका, भीमांसेयमुदीरिता मुनिशिवानन्देन भङ्गोज्वला | श्रीमद्भिर्गुरुभिः समिद्धकृपया दृष्ठाविशुद्धान्वया, भूयाद्वलसुखावबोधफलिका मोदप्रदा धीमताम् ॥ १० ॥ जीवद्वीरसुबिम्ब मधुमतीद्रङ्गे सुरङ्गमहाराज्येराजति सूरचक्रमुकुट श्रीनेमिरिप्रभोः । वर्षे वैशरशून्यशुन्यनयने श्रीविक्रमादित्ये, मीमांसा जपतात् कृताऽऽश्विनासिते राका दिनेशारदे ॥११॥
----