________________
(१३६) भाष्यम् , तत्वं च पदानां व्युत्पत्त्यर्थान्वयनियतार्थबो. धकत्वाभ्युपगन्तृत्वम्, नियमच कालतो देशतश्चेति न समभिरूढातिव्याप्तिरपि, अयं स्वल्वस्य सिद्धान्त:-- यदि घटपदव्युत्पत्त्यर्थाभावात्कुटपदार्थोपि न घटपदार्थः, तदा जलाहरणादिक्रियाविरहकाले घटोऽपि न घटपदार्थोऽविशेषादिति, नन्वेवं प्राणधारणाभावात्सिद्धोऽपि न जीवः स्यादिति चेत्, एतन्नये न स्यादेव, तदाह भाष्यकारः-एवं जीवं जीवो संसारी प्राणधार. णाणुभयो। सिद्धो पुणरजीवो जीवणपरिणामरहिओ ॥ २२५६ ॥ इति विशेषावश्यके. अत जीवो नोजीवोऽजीवो नोऽजीव इत्या कारिते नैगम-देशसंग्रहव्यवहारर्जुसूत्र-साम्प्रतसमभिरूढा जीवं प्रत्यौपशमिकादिभावपञ्चकग्राहिणः, तन्मते व्युत्पत्तिनिमित्तजीवनलक्षणोदयिकभावोपलक्षितात्मत्वरूपपरि. णामभावविशिष्टस्य जीवस्य भावपञ्चकात्मनः पदार्थवादित्यमी पञ्चस्वपि गतिषु जीव इति जीवद्रव्यं प्रतियन्ति, नोजीव इति नोशब्दस्य सर्वनिषेधार्थपक्षेऽजीवद्रव्यमेव, देशनिषेधार्थपक्षे च देशस्यानिषेधाजीवस्यैव देशप्रदेशी, अजीव इति नकारस्य सर्वप्रतिषेधार्थत्वात्पर्युदासाश्रयणाच जीवादन्यत पुङ्गलद्रव्यादिकमेव । नोऽजीव इति, सर्वप्रतिषेधाश्रयणे जीव द्रव्यमेव, देशप्रतिषेधाश्रयणे चाजीवस्यैव देशप्रदेशौ। एवम्भूतस्तु जीवम्प्रत्यौदयिकभावग्राहकः, तन्मते क्रियाविशिस्यैव पदार्थत्वादिति, अयं जीव इत्याकारिते भवस्थमेव