________________
( १३५) रूपेण तत्पदशक्तिः, भवति च घटपदादिव कुटपदादपि घटवेनैवार्थबोध इति घट-कुटपदयोः पर्यायत्वमेव युक्तमिति चेत् , न, घटन-कुटनादिविभिन्न क्रियापुरस्कारेणैर घट कुटादिपदेभ्योऽर्थबोधात् , तेषामर्थभेदनियमादसमानाधिकरणपदत्वापेक्षया लाघवादिन्नपदत्वावच्छेदेनैव भिन्नार्थत्वकल्पनात पर्यायपदाप्रसिद्धः, व्युत्पत्त्यर्थबोधं विनाऽपि दृश्यते पदार्थबोध इति चेत्, न, अन्यत्र विपरीतव्युत्पन्नात्तदसिद्धेः, हन्त ? एवं पारिभाषिकशब्दस्यानर्थकत्वमापन्नमिति चेत्, आपनमेव, किं हन्तेति पूत्कारेण १। तदुक्तं-तत्र "पारिभाषिकी नार्थतत्त्वं ब्रवीति" इति । अथ-अर्थबोधकत्वमात्रं यदि पदस्वभावः, तदा यदृच्छाशब्दसङ्केतादपि तदभिव्यक्तेः किं वैषम्यमिति चेत् , न, पदानां व्युत्पत्तिनिमित्तोपकारेणैवार्थबोधकत्वस्वाभाव्यात् , यदृच्छासंकेतोपप्लवादस्वभावभूतस्यैव धर्मस्य ग्रहेण वैषम्यात् । अथ नानार्थकपदेऽर्थसंक्रमवदर्थेऽपि पदसंक्रमः किं न स्यादिति चेत् , न, अर्थस्येव पदस्यापि क्रियोपरागेण भेदादर्थासंसंक्रमस्वीकारात् । 'हरी' इत्यादौ च पदसारूप्येणैवैकशेषः नत्वर्थसारूप्येणेति दिक्" इति, अयमपि भावनिक्षेपमेव स्वीकरोति । एवम्भूतनयस्वरूपस्पष्ट. प्रतिपत्तये नयरहस्यप्रकरणगतस्तत्प्रतिपादकग्रन्थ एवोल्लि. ख्यते " व्यञ्जनार्थविशेषान्वेषणपरोऽध्यवसायविशेष एवम्भूतः,"वंजण अत्य-तदुभए एवंभूओविसेसेइ" इति सूत्रम् , " व्यञ्जनार्थयोरेवम्भूत इति तत्त्वार्थ