________________
(१३४ } भ्युपगमापेक्षया एतदन्यतरभङ्गाधिक्याभ्युपगमाच्छब्दनयस्य विशेषिततरत्वमदुष्टमिति सम्प्रदायः। अथवा लिङ्गवचनसख्यादिभेदेनार्थभेदाभ्युपगमादजुसूत्रादस्य विशेषः, अयं खल्वेतस्याशयः-पदि ऋजुत्रेण "पलालं न दहत्यग्नि भिद्यते न घटः क्वचित।नासंयतःप्रव्रजति भव्योऽसिदोन सिद्धयति ॥१॥” इत्यादावभिनिवेशः तर्हि विकाराविकाराद्यर्थकक्रियानामादिपदानां सामानाधिकरण्यानुपपच्या किं न तथाकल्पने अभिनिविश्येतेति अस्य चोपदर्शिततम्रो भावनिक्षेप एवाभिमतः १५॥ समभिरुहस्य तु असंक्रमगवेषणपरोऽध्यवसायविशेषत्वं लक्षणम्,अत्र-“वत्थूओ संकमगं होइ अवन्थू णए समभिरूढे" ति सूत्र, स. त्स्वर्थेष्वसङ्क्रमः समाभरूढः” इति तत्त्वार्थभाष्यश्च प्रमाणम्, एतत्पर्यवसितश्च संज्ञाभेदनियतार्थभेदाभ्युग. न्त्रध्यवसायविशेषत्वं समभिरूढत्वमिति, एवम्तोऽपिसज्ञाभेदेनार्थमेदमभ्युपगच्छनीति तत्रातिव्याप्तिवारणायोक्तलक्षणे एवम्भूतान्यत्वे सतीति विशेषणं देयम् , अस्याभिप्रायः श्रीमद्भिपाध्यायैरित्थमुपवर्णितः-"अयं खल्वस्याभिमानः-यदुत यदि शब्दो लिङ्गादिभेदेनार्थभेदं प्रतिपद्यते तर्हि संज्ञाभेदेनापि किमित्यर्थभेदं न स्वीकुरुते, अनुशासनबलाघटकुटादिशब्दानामेकत्र सङ्केतग्रहादिति चेत , ऋजुम्लत्रेणेव तेनान्यथागृहीतोऽपि सङ्केतो विशेषपर्यालोचनया किमिति न परित्यज्यते, अथ येन रूपेण यत्पदार्थबोधस्तेनैव