________________
(१३३) सचावक्तव्यत्वोभयबोधनतात्पर्यैकवाक्येन तथावोधात् ॥ [पञ्चमो भङ्गः] एकदेशे परपर्यायैरसद्भावेनापितोऽन्यस्मिस्तु स्वपरपर्यायैः सत्त्वासत्वाम्यामेकेन शब्देन वक्तुमभिप्रेतोऽकुम्भोऽवक्तव्यश्च भण्यते, देशभेदेनैकत्रासत्वावक्तव्यत्वोभयबोधनतात्पर्यैकवाक्येन बोधात् ।। [षष्ठो भङ्गः ] तथैकस्मिन् देशे स्वपर्यायः सद्भावेनापितोऽन्यस्मिस्तु परपर्यायैरसद्भावेनार्पितोऽपरस्मिस्तु स्वपरोभयपर्यायैः सद्भावासद्भावास्यमेकेन शब्देन वक्तुमिष्टः कुम्भोऽकुम्भोऽवक्तश्च भण्यते, देशभेदेनकत्र त्रयबोधनतापर्यंकवाक्येन तथाबोधादिति विशेषः । [ सप्तमो भङ्गः] तथा च बभाषे भाष्यकरः-अहवा पच्चुप्पन्नो, रियसुत्तस्साविसेसिओ चेव । कुंभो विसे. सिययरो सम्भावाईहिं सहस्स ॥ २२३१॥ सम्भावाऽसम्भावोभयप्पिओ सपरपज्जओभयओ।। कुंभाकुंभाऽवत्तवोभयरूवाइमेओ सो" ॥ २२३२ ॥ इति विशेषावश्यके। अत्र कुम्भाकुम्भेत्यादिगाथार्द्धन षट् भङ्गाः साक्षादुपाचाः सप्तमस्त्वादिशब्दात् , तथा हि कुम्भोऽकुम्भोडवक्तव्यः कुम्भश्वाकुम्भश्च कुम्भश्चावक्तव्यश्च अकुम्भश्चावक्तव्यश्चेति त्रिविध उभयरूपः, आदिशब्दसहितच कुम्भोऽकुम्भोऽवक्तव्यश्चेति सप्तभेदो घट इति, अत्र च सकलर्मिविषयत्वा.
यो मङ्गा अविकलादेशाः, चत्वारश्च देशावच्छिन्नमिविषयत्वाद्विकलादेशा इति । यद्यपीदृशसप्तभङ्गपरिकरितं सम्पूण वस्तु स्थाद्वादिन एव सङ्गिरन्ते, तथापि ऋजुसूत्रकृता.