________________
( १३२) इति चेत् , न, उभयपदजन्यस्यापकपदजन्यत्वाव्यभिचारात् , कुम्भ-नञ्पदाम्यामकुम्भत्वबोधके द्वितीयभङ्गे परपर्यायावच्छेदेनाप्यवक्तव्यत्वोल्लेखापत्तेः, प्रकृतेऽप्येकेन तदुभयादिसाङ्केतिकपदेन बोधसम्भवाद्राधाश्च । अथ 'स्वपपर्यायोभयापच्छिन्नविधेयताकशाब्दबोधाविषयत्वमेवावक्तव्यत्वम् । द्वितीय भङ्गे च कुम्भ-नपदाभ्यामपि तात्पर्यवशादेकविधेयकबोधस्यैवोद्देश्यत्वान्नातिप्रसङ्गः, उभयादिपदाच्च बुद्धिस्थशक्तादुभयविधेयकबोधस्यैवोद्देश्यन्न वाध इति चेत्, न, अप्रसिद्धेः, विकल्पबलात्कथश्चित्प्रसिद्धावप्यनापेक्षिकत्वेन तत्र स्यात्पदप्रयोगानुपपत्ते तथा चापेक्षिकविशेषविश्रान्तवक्तव्यत्त्वप्रतिपक्षावक्तव्यत्वासिद्धौ वक्तव्यत्व विषयस्याष्टमभङ्गस्यापत्ते, अवक्तव्यत्वप्रतिपक्षस्य विशेषविश्रान्तत्वादेव नाष्टमभङ्गापत्ति. रिति हि सम्प्रदाय इति चेत, न, प्रकृतविधिनिषेधसंसगावच्छिकविधेयताकशाबोधाविषयत्वरूपस्यावक्तव्यत्वस्य स्वपरपर्यायोमयावच्छेदेन तृतीय भङ्गोपस्थित्या दोषाभावात् , आच्छिन्नान्तोपादानादवक्तव्यत्वैकविधेयतामादाय न बाध इति दिक् [वृतीय भङ्ग] एकस्मिन्देशे स्वपर्यायसवेनापरस्मिथ परपर्यायासत्वेन विवक्षितो घटोऽयटश्च भण्यते, एकस्मिन् धर्मिणि देशभेदेन भिन्नतया विवक्षिते एकवाक्यादुभयबोधतात्पर्येण तथावोधात् । [चतुर्थो भङ्गः ] एकस्मिन् देशे स्वपर्यायैः सत्वेनार्पितोऽन्यत्र तु देशे स्वपरोभयपर्यायः सत्चासचाभ्यामर्पितः कुम्भोऽवक्तव्यश्च भव्यते, देशभेदेने का