________________
(१३१ ) ऋजुसूत्रस्य प्रत्युत्पन्नो विशेषितः कुम्भ एवाभिमतः, अस्य तु मत ऊर्ध्वग्रीवत्वादिस्वपर्यायैः सद्भावे नार्पितः कुम्भः कुम्भ इति भण्यते, इदन्त्वकुम्मत्वाद्यवच्छेदेन स्वशिष्यनिष्ठस्वपर्यायावच्छिन्नतत्वसत्ताबोधप्रयोजकप्रकृतवाक्येच्छारूपगुवेर्पणयाऽ. यमूर्ध्वग्रोवत्वादिना कुम्भ एव कुम्भः, ऊर्ध्वग्रीवत्वादिना कुम्भ एवेत्यादिवाक्यप्रयोगात् , इत्थमेवोदेश्य सावधारणप्रतीते. दिान्तरोत्थापितविपरीताभिनिवेशनिरासस्य च सिद्धेः। [प्रथमो भङ्गः] इदमेव भङ्गान्तरेऽप्यपणप्रयोजनं बोध्यम् । पटादिगतैस्त्वक्त्राणादिभिः परपर्यायैरसद्भावेनार्पितोऽकुम्भो भण्यते, कुम्भे कुम्भत्वानवच्छेदकधर्मावच्छिन्नाकुम्भत्वसत्चात् , नन्वेवं कुम्भवानवच्छेदकप्रमेयत्वावच्छेदेनाप्यकुम्भत्वापत्तिरि. ति चेत्, नानाधर्मसमुदायरूपकुम्भत्वे प्रमेयत्वस्याप्यवच्छेदकत्वात् ॥ [द्वितीयो भङ्ग] तथा सर्वोऽपि घटः स्वपरोभयपर्यायैः सद्भावासद्भावाभ्यामर्पितोऽवक्तव्यो भण्यते, स्वपरपर्यायसच्चासत्त्वाभ्यामेकेन केनापि शब्देन सर्वस्यापि तस्य युगपद्वक्तु. मशक्यत्वात् . अथकपदवाच्यत्वं घटस्य स्वपर्यायावच्छिन्नत्वोपरागेणापि नास्तीति तदवच्छेदनाप्यवाच्यत्वापत्तिः, वस्तुतः स्वपर्यायावच्छिन्नस्यैकपदवाच्यत्वेनावक्त्तव्यत्वाभावे वस्तुतः कथञ्चिदुभयपर्यायावच्छिन्नस्याप्येकपदवाच्यत्वेन तथात्वापत्तेः, अन्यथा परपर्यायावच्छिन्नस्याप्यवक्तव्यत्वापत्तेः, विधेयांश एकपदजन्यस्वपरपर्यायोभयावच्छिन्नप्रकारकशाब्दबोधाविषयत्वमेवावक्तव्यत्वमिति न दोष