________________
(१३०) रणायाध्यवसायविशेषे समभिरूढभिन्नत्वमेवम्भूतभिन्नत्वञ्च विशेषणं देयम्, साम्प्रतस्यैव शब्द इति संज्ञान्तरमवलम्ब्य सम्प्रदाये-" विशेषिततरऋजुसूत्राभिम. तार्थग्राही अध्यवसायविशेषः शब्दः” इति लक्षणम्, अत्र-'इच्छइ विशेसियतरं, पच्चुप्पुण्णं गओ सहो' इति सूत्रं प्रमाणम् , तरप्रत्ययोपादानाद्विशेषिततमे सममिरूढे ततोऽपि विशेषिततमे एवम्भूते च ना. तिव्याप्तिः तदुक्तं-"विशेषिततरः शब्दः प्रत्युत्पन्ननयाश्रितः (नाश्रयोन यः)। तरप्पत्ययनिर्देशाद्विशेषिततमेऽगतिः ॥३३ ।। ऋजुसूत्राद्विशेषोऽस्य भावमात्रा. भिमानतः । सप्तभब्यर्पणाल्लिङ्ग-भेदादेवार्थभेदतः ॥ ३४ ॥ इति नयोपदेशे, एतद्विशेषभावना श्रीमद्भिः यशोविजयोपाध्यायैर्नयरहस्यप्रकरणे इत्थं कृता, तथा हि-"ऋजुसूत्राद्विशेषः पुनरस्येत्थं भावनीयः यदुत संस्थानादिविशेषात्मा भावघट एव परमार्थः सन् , तदितरेषां तत्तु. ल्यपरिणत्यभावेनाघटत्वात् , घटव्यवहारादन्यत्रापि घटन्वसिद्विरिति चेत्, न, शब्दाभिलापरूपव्यवहारस्य सङ्केतविशेषप्रतिसन्धाननियन्त्रितार्थमात्रवाचकतास्वभावनियम्यतया विषयतथात्वेऽतन्त्रन्वात् , प्रवृत्यादिरूपव्यवहारस्य चासिद्ध, घटशब्दार्थत्वाविशेषे भावघटे घटत्वं नापरत्रेत्यत्र किं नियामकमिति चेत् , अर्थक्रियैवेति गृहाण । अतएवात्रानुपचरितं घटपदार्थत्वम् , अन्यत्र तूपचस्तिमिति गीयते विशेषः । अथवा