________________
( १२९) पयोगांशमादाय वर्तमानावश्यकपर्याये द्रव्योपचारादुक्तसूत्रविरोधपरिहारस्तु नव्यानां न युक्तः, उक्तसूत्रस्योपचरितार्थत्वाभावेनोपचरितद्रव्यनिक्षेपप्रदर्शनपरत्वाभावान् । नैगमः सङ्ग्रहो व्यवहार ऋजुसूत्रः शब्द इति पञ्चनया इति मते शब्दनयत्वेन सगृहीतानां साम्प्रत-समभिरूढ वम्भूतानां त्रयाणामपि "यथार्थाभिधानं शब्द!" इत्येक लक्षणम् , भावमात्राभिधानप्रयोजकाध्यवसायविशे. षः शब्द इति तत्फलितम् , यथार्थाभिधानत्वस्य यथाश्रुतस्य नैगमादिनये भावेऽपि भावमात्राभिधानप्रयोजकाध्यवसायविशेषत्वस्य तत्राभावाभातिव्याप्तिः, तत्र-"नामादिषु प्रसिद्धपूर्वाच्छब्दादर्थे प्रत्ययः साम्प्रतः" इति साम्प्रतनयस्य लक्षणम्, प्रतिविशिष्टवर्तमानपयायापन्नेषु नामस्थापनाद्रव्यभावेषु गृहीतसङ्केतस्य शब्दस्य भावमात्रबोधकत्वपर्यवसायी योऽध्यवसायविशेषस्तवृत्तिनयत्वव्याप्यजातिमध्यवसायत्वं साम्यतनयत्वमिति पर्यवसितम्, तेन साम्प्रतनयः कश्चिल्लिङ्गभेदेनार्थभेदग्राहकः कश्चित्सङ्ख्याभेदेनार्थ भेदग्राहकः, कश्चित्पुरुषादिभेदेनार्थभेदादिग्राहक इत्येवं बहुविधेषु साम्प्रतनयेषु शब्दस्य भावमात्रबोधकत्वपर्यवसायी योऽध्यवसायो न भवेत्तस्मिन्नपि निरुक्तजातिमध्यव सायविशेषत्वस्य सत्वान्नाव्याप्तिः, भावमात्रबोध. कत्वपर्यवमायिनोस्लममिरुदैवम्भूतयोरतिव्याप्तिवा