________________
(१२८)
स्यातीतानागतकालसम्बन्धाभावव्याप्यत्वं तदभ्युपगन्तृत्वं तेन कालत्रयाभ्युपगन्तरि नैगमादिनये वर्तमानक्षणलक्षणप्रत्युत्पन्नग्राहित्वसद्भावेऽपि नातिव्याप्तिः, भावानां वर्तमानक्षणसम्बद्धानां विरोधेनातीतानागतसम्बन्धो न भवति, विकल्पात्मकज्ञानस्य वासनाप्रभवस्यातीतानागताकारस्य भ्रमात्मकत्वादेव न ततो भावानामतीतानागतकालसम्बद्धत्वसिद्धिः, विषयजन्यश्च प्रत्यक्षं नातीतानागताकारद्वयशालीति न ततोऽतीतत्वानागतत्वयोस्सामानाधिकरण्यसिद्धिरिति, "सतां साम्प्रतानामर्थानाभिधान-परिज्ञानमृजुसूत्रः" इति तत्त्वार्थभाष्याभिप्रेतमजुसूत्र.. लक्षणं व्यवहारातिशायित्वं तदतिशयप्रतिपत्तये, अतिशयश्चेत्थमवेसयः-व्यवहारो हि व्यवहारानङ्गत्वाद्यदि सामा. न्यं नेच्छति तर्हि स्वदेश एवार्थक्रियाकारित्वलक्षण सत्वस्य भावेन परकीयार्थस्य स्वदेशसचाभावेनासलमेव, एवं वर्तमानक्षणलक्षणस्वकाल एवार्थ क्रियाकारित्वलक्षणसवस्य भावेनातीतानागतकालयोनिरुक्तसत्त्वाभावेनासत्वमेव, एवं परकीयार्थाभिधानज्ञानयोरपि सदभिधायकत्वाभावसदर्थविषयकत्वाभावावेत्यभिमान एव व्यवहारतोऽतिशय इति, अस्यापि चत्वारो निक्षेपा अभिमता इति प्राचां मतम् , द्रव्यनिक्षेपं नेच्छत्ययमिति वादिसिद्धसेनमतानुसारिणः, तत्र"उज्जुसुअस्स एगे अणुवउत्ते एगं दवावस्सयं पुहुत्तं णेच्छइ” इति सूत्रविरोधोऽपरिहरणीय एव, अनु..