________________
(१२७ )
तृत्वे प्रमाणं, विनिश्चितार्थप्राप्तेः सामान्यानम्युपगमे सति विशेषाभ्युपगमादेव भावात् , जलाहरगायु पयोगिनो घटादिविशेषानेवायमङ्गीकरोति न तु सामान्यं, अर्थक्रियाऽकारिणस्सामान्यस्य शशशृङ्गकल्पत्वात् , घटोऽयं पटोऽयं द्रव्यंमित्याद्यनुगतप्रतीतेरन्योपोहत एवोपपत्तेः, "लौकिकसम उपचारप्रायो विस्तृतार्थो व्यवहारः” इति तत्त्वार्थभाष्यं त्वत्र विशेषप्रतिपादनपरम, तचेत्यं-यथाहि लोको निश्चयतः पश्चवर्गेऽपि भ्रमरे कृष्णवर्णवमेवाभ्युपगच्छति तथाऽयमपीति लौकिकसमः कुण्डिका सवति पन्था गच्छतीत्यादौ बाहुल्येन गौणप्रयोगादुपचारप्रायः, विशेषप्रधानत्वाच विस्तृतार्थ इति, अयमपि सकलनिक्षेपानुररीकरोति, स्थापनां नेच्छत्ययमिति तु कस्यचिद्युक्तिरिक्तं वचोमात्रम्, इन्द्रप्रतिमायामिन्द्रोऽयमिति व्यवहारस्य लोकानामविगानेन प्रतीयमानत्वात् , बाधकामावेनास्य भ्रान्तत्वायोगात् , यदि च स्थापनायां नामादिनिक्षेपव्यवहारो भवेत् तदा तत्साकयोदसकोणस्थापनानिक्षेपत्वं न भवेदपि न चैवम् , तस्माद्यवहारस्य लोकव्यवहारानुरोधित्वमभ्युपगच्छता तस्य स्थापना निक्षेपाभ्युपगन्तृत्व स्वीकरणीयमेवेति । ऋजुसूत्रनयस्य प्रत्युत्पन्न ग्राह्यध्यवसायविशेषत्वं लक्षणम् तत्र "पच्चुप्पण्णग्गाही उज्जुसुओणयविही मुणेयम्वो” इति सूत्रं प्रमाणम् , प्रत्युत्पन्नग्राहित्वं च यत्र यत्र भावत्वं तत्र तत्रातीतानागतकालसम्बन्धाभाव इत्येवं यद्भावत्व