________________
( १.६ )
शक्यत एव द्रव्यं मात्ररूपेण परिणमत इति परिणामि, भावः परिणाम इत्यनयोः परिणामिपरिणामभावसम्बन्धः, नाम वाचकं भावो वाच्य इत्यनयोर्वाच्यवाचकभाव सम्बन्ध इत्येवं भावेन सह विभिन्न सम्बन्धेन सम्बद्ध्यमानत्वाद् द्रव्यनाम्नो विशेष इति यदि, तदा निरुक्त सम्बन्धद्वयव्यतिरिक्ततुल्यपरिणामत्वाख्यसम्बन्धेन भावेन सहस्थापनायास्सम्बद्ध्यमानत्वात्स्थापनानाम्नोऽप्यस्त्येव विशेष इति नाम्नि न स्थापनाया अन्तर्भावः । उपचारं स्वीकरोति नैगम इति देशप्रदेशयोर्देशत्वाविशेषेऽप्युपचारतो भेदकल्पना सम्भवतीति युज्यते तन्मते षण्णां प्रदेश इति वाचो युक्तिः । सङ्ग्रहनय उपचारं नेच्छतीति देशप्रदेशयोर्देशत्वाविशेषे सत्यप्युपचारनिमित्तक भेदकल्पनाभावाद्युज्यते तत्र तस्य पञ्चानामेव प्रदेशस्वीकारः, प्रकृते तु स्थापनानिक्षेपविभागो नोपचारत इति स्थापनानिक्षेपस्य सङ्ग्रहनये स्वीकारेऽप्यनुपचरितत्वलक्षणविशेषो नापनोदितो भवतीति । व्यवहारस्य तु लोकव्यवहारोपथिकाध्यवसायविशेषत्वं लक्षअध्यवसाय विशेषस्य लोकव्यवहारोपयिकत्वं च सामान्यानभ्युपगमपुरस्सर विशेषाभ्युपगन्तृत्वादुपयते, अत एव विशेषेणावहियते निराक्रियते सामान्यमनेनेति व्यवहार इति निरुक्तिरुपपद्यते - " बच्चइ विणिच्छियत्थं, ववहारो सञ्चदव्वेसु" इति सूत्रं व्य- वहारस्य सामान्यनभ्युपगमपुरस्सर विशेषाभ्युपग
OTA,